{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

पुण्याहवाचन




ईश्वरोन्मुख होनेके बाद मनुष्यको परमात्माके वास्तविक तत्वक परिज्ञान होने लगता है और फिर वह सदा सर्वदाके लिये जीवमुक्त हो जाता है, इसीलिये सारे कर्म शास्त्रकी आज्ञाके अनुसार होने चाहिये ।

Content
पुण्याहवाचन

पुण्याहवाचन के दिन आरम्भें वरुण-कलशके पास जलसे भरा एक पात्र (कलश) भी रख दे । वरुण-कलशके पूजनके साथ-साथ

इसका भी पूजन कर लेना चाहिए । पुण्याहवाचनका कर्म इसीसे किया जाता है । सबसे पहले वरुणकी प्रार्थना करे ।

वरुण प्रार्थना -

ॐ पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक ।

पुण्यावाचनं यावत् तावत् त्वं सुस्थिरो भव ॥

यजमान अपनी दाहिनी ओर पुण्याहवाचन-कर्मके लिए वरण किये हुए युग्म ब्राह्मणोंको, जिनका मुख उत्तरकी ओर हो, बैठा ले ।

इसके बाद यजमान घुटने टेककर कमलकी कोंढ़ीकी तरह अञ्जलि बनाकर सिरसे लगाकर तीन बार प्रणाम करे । तब आचार्य

अपने दाहिने हाथसे स्वर्णयुक्त उस जलपात्र (लोटे) को यजमानकी अञ्जलिमे रख दे । यजमान उसे सिरसे लगाकर

निम्नलिखित मन्त्र पढ़कर ब्राह्मणोंसे अपनी दीर्घ आयुका आशीर्वाद मांगे -

यजमान - ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ।

तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ॥

यजमानकी इस प्रार्थनापर ब्राह्मण निम्नलिखित आशीर्वचन बोले-

ब्राह्मण - अस्तु दीर्घमायुः ।

अब यजमान ब्राह्मणोंसे फिर आशीर्वाद मांगे -

यजमान -

ॐ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ॥

तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु इत भवन्तो ब्रुवन्तु ।

ब्राह्मण - पुण्यं पुण्याहं दीर्घमायुरस्तु ।

यजमान और ब्राह्मणोंका यह संवाद इसी आनुपूर्वीसे दो बार और होना चाहिये । अर्थात् आशीर्वाद मिलनेके बाद यजमान

कलशकोसिरसे हटाकर कलशके स्थानपर रख दे । फिर इस कलशको सिरसे लगाकर-

'ॐ दीर्घा नागा नद्यो.... रस्तु'

बोले इसके बाद ब्राह्मण

'दीर्घमायुरस्तु' बोलें ।

इसके बाद यजमान पहलेकी तरह कलशको कलश-स्थानपर रखकर फिर सिरसे लगाकर

'ॐ दीर्घा नागा....रस्तु'

कहकर आशीर्वाद मांगे और ब्राह्मण

'दीर्घमयुरस्तु'

यह कहकर आशीर्वाद दें ।

यजमान - ॐ अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ।

ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु नः ॥

ॐ शिवा आपः सन्तु ।

ऐसा कहकर यजमान ब्राह्मणोंके हाथोंमें जल दे ।

ब्राह्मण - सन्तु शिवा आपः ।

अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणोंके हाथोंमें पुष्प दे -

यजमान - लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ।

सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे ॥ सौमनस्यमस्तु ।

ब्राह्मण - 'अस्तु सौमनस्यम्'

ऐसा कहकर ब्राह्मण पुष्पको स्वीकार करें ।

अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणोंके हाथमें अक्षत दे-

यजमान - अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशोबलम् ।

यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ॥ अक्षतं चारिष्टं चास्तु ।

ब्राह्मण - 'अस्त्वक्षतमरिष्टं चं' । -

ऐसा बोलकर ब्राह्मण अक्षतको स्वीकार करें । इसी प्रकार आगे यजमान ब्राह्मणोंके हाथोंमें चन्दन, अक्षत, पुष्प आदि देता जाय

और ब्राह्मण इन्हें स्वीकार करते हुए यजमानकी मङ्गल कामना करें ।

यजमान - (चन्दन) गन्धाः पान्तु ।

ब्राह्मण - सौमङ्गल्यं चास्तु ।

यजमान - (अक्षत) अक्षताः पान्तु ।

ब्राह्मण - आयुष्यमस्तु ।

यजमान - (पुष्प) पुष्पाणि पान्तु ।

ब्राह्मण - सौश्रियमस्तु ।

यजमान - (सुपारी-पान) सफलताम्बूलानि पान्तु ।

ब्राह्मण - ऐश्‍वर्यमस्तु ।

यजमान - (दक्षिणा) दक्षिणाः पान्तु ।

ब्राह्मण - बहुदेयं चास्तु ।

यजमान - (जल) आपः पान्तु ।

ब्राह्मण - स्वर्चितमस्तु ।

यजमान - (हाथ जोड़कर) दिर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु ।

ब्राह्मण - 'तथास्तु' -

ऐसा कहकर ब्राह्मण यजमानके सिरपर कलशका जल छिड़ककर निम्नलिखित वचन बोलकर आशीर्वाद दें-

ॐ दीर्घमायुः शान्तिः पुष्टिस्तुष्टिचास्तु ।

यजमान - (अक्षत लेकर) यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते, तमहमोङ्कारमादिं

कृत्वा यजुराशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये ।

ब्राह्मण - 'वाच्यताम्' -

ऐसा कहकर निम्न मन्त्रोंका पाठ करे -।

ॐ द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ॥

सविता त्वा सवाना सुवतामग्निर्गृहपतीना सोमो वनस्पतीनाम् ।

बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ।

न तद्रक्षा सि न पिशाचास्तरन्ति देवानामोजः प्रथमज ह्येतत् ।

यो बिभर्ति दाक्षायण हिरण्य स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ।

उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्र शर्म महि श्रवः ॥

उपास्मै गायता नरः पवमानायेन्दवे । अभि देवॉं२ इयक्षते ।

यजमान - व्रतजपनियमतपः स्वाध्यायक्रतुशमदमदयादानविशिष्टानांसर्वेषां ब्राह्मणानां मनः समाधीयताम्‌ ।

ब्राह्मण - समाहितमनसः स्मः ।

यजमान - प्रसीदन्तु भवन्तः ।

ब्राह्मण - प्रसन्नाः स्मः ।

इसके बाद यजमान पहलेसे रखे गये दो सकोरोंमेसे पहले सकोरेमें आमके पल्लव या दूबसे थोड़ा जल कलशसे डाले और

ब्राह्मण बोलते जाय -

पहले पात्र (सकोरे) में- ॐ शान्तिरस्तु । ॐ पुष्टिरस्तु । ॐ तुष्टिरस्तु । ॐ वृद्धिरस्तु । ॐ अविघ्नमस्तु । ॐ

आयुष्यमस्तु । ॐ आरोग्यमस्तु ॐ शिवमस्तु । ॐ शिवं कर्मास्तु । ॐ कर्म समृद्धिरस्तु । ॐ धर्म

समृद्धिरस्तु । ॐ वेद समृद्धिरस्तु । ॐ शास्त्रसमृद्धिरस्तु । धनधान्य समृद्धिरस्तु । ॐ पुत्रपौत्रसमृद्धिरस्तु । ॐ

इष्टसंपदस्तु ।

दूसरे पात्र (सकोरे) - मे- ॐ अरिष्टनिरसनमस्तु । ॐ यत्पापं रोगोऽशुभमकल्याणं तद् दूरे प्रतिहतमस्तु ।

पुनः पहले पात्रमें -

ॐ यच्छ्रेयस्तदस्तु । ॐ उत्तरे कर्मणि विघ्नमस्तु । ॐ उत्तरोत्तरमहरहरभिवृद्धिरस्तु । ॐ उत्तरोत्तराः क्रियाः

शुभाः शोभनाः संपद्यंताम् । ॐ तिथिकरणमुहुर्तनक्षत्रसंपदस्तु । ॐ तिथिकरणमुहुर्तनक्षत्रग्रहलग्नादिदेवताः

प्रीयंताम् । ॐ तिथिकरणेमुहुर्तनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम् । ॐ दुर्गा पांचाल्यौ प्रीयेताम् । ॐ

अग्निपुरोगा विश्वेदेवाः प्रीयंताम् । ॐ इंद्रपुरोगा मरुद्‌गणाः प्रीयंताम् । ॐ वसिष्ठ पुरोगा ऋषिगणाः प्रीयेताम् ।
ॐ माहेश्वरी पुरोगा उमा मातरः प्रीयेताम् । ॐ अरुंधति पुरोगा एकपत्‍न्यः प्रीयंताम् । ॐ ब्रह्म पुरोगा सर्वे

वेदाः प्रीयंताम् । ॐ विष्णु पुरोगा सर्वे देवाः प्रीयंताम् । ॐ ऋषयश्छंदास्याचार्या वेदा देवा यज्ञाश्च प्रीयंताम् ।

ॐ ब्रह्म च ब्राह्मणाश्च प्रीयंताम् । ॐ श्रीसरस्वत्यौ प्रीयेताम् । ॐ श्रद्धामेधे प्रीयेताम् । ॐ भगवती कात्यायनी

प्रीयेताम् । ॐ भगवती माहेश्वरी प्रीयेताम् । ॐ भगवती पुष्टिकरी प्रीयेताम् । ॐ भगवती तुष्टिकरी प्रीयेताम् ।

भगवती ॐ ऋद्धिकरी प्रीयेताम् । भगवती वृद्धिकरी प्रीयेताम् । ॐ भगवंतौ विघ्नविनायकौ प्रीयेताम् । सर्वाः

कुलदेवताः प्रीयंताम् । सर्वा ग्रामदेवताः प्रीयंताम् । ॐ सर्वा इष्टदेवताः प्रीयन्ताम् ।

दूसरे पात्रमें -

ॐ हताश्‍च ब्रह्मद्विषः । ॐ हताश्‍च परिपंथिनः । ॐ हताश्‍च कर्मणो विघ्नकर्तारः । ॐ शत्रवः पराभवं यांतु ।

ॐ शाम्यंतु घोराणि । ॐ शाम्यंतु पापानि । ॐ शाम्यंत्वीतय । ॐ शाम्यन्तूपद्रवाः ॥

पहले पात्रामें - ॐ शुभानि वर्धंताम् । ॐ शिवा आपः संतु । ॐ शिवा ऋतवः संतु । ॐ शिवा अग्नयः संतु ।

शिवा आहुतयः संतु । शिवा ओषधयः संतु । शिवा वनस्पतयः संतु । शिवा अतिथयः संतु । अहोरात्रे

शिवेस्त्याताम् ।

ॐ निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥

ॐ शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्य पुरोगा सर्वे ग्रहाः प्रीयंताम् । ॐ भगवान् नारायणः

प्रीयताम् । ॐ भगवान पर्जन्यः प्रीयताम् । ॐ भगवान स्वामी महासेनः प्रीयताम्। ॐ पुरोऽनुवाक्यया यत्पुण्यं

तदस्तु । ॐ याज्यया यत्पुण्यं तदस्तु । ॐ वषट्‌कारेण यत्पुण्यं तदस्तु । ॐ प्रातः सूर्योदये यत्पुण्यं तदस्तु ।

इसके बाद यजमान कलशको कलशके स्थानपर रखकर पहले पात्रमें गिराये गये जलसे मार्जन करे । परिवारके लोग भी मार्जन
करें । इसके बाद इस जलको घरमें चारों तरफ छिड़क दे । द्वितीय पात्रमें जो जल गिराया गया है, उसको घरसे बाहर एकान्त

स्थानमें गिरा दे ।

अब यजमान हाथ जोड़कर ब्राह्मणोंसे प्रार्थना करे -

यजमान - ॐ एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये ।

ब्राह्मण - वाच्यताम् ।

इसके बाद यजमान फिरसे हाथ जोड़कर प्रार्थना करे -

यजमान - ॐ ब्राह्मं पुण्यमहर्यच्च सृष्ट्युत्पादनकारकम् ।

(पहली बार) वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ पुण्याहम् ।

यजमान - भो ब्राह्मणाः । मम ...करिष्यमाणस्य अमुककर्मणः

(दूसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ पुण्याहम् ।

यजमान - भो ब्राह्मणाः । मम ...करिष्यमाणस्य अमुककर्मणः

(तीसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ पुण्याहम् ।

ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।

पुनन्तु विश्‍वा भूतानि जातवेदः पुनीहि मा ॥

यजमान - पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् ।

(पहली बार) ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ कल्याणम् ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(दूसरी बार) करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ कल्याणम् ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(तीसरी बार) करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ कल्याणम् ।

ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः ।

ब्रह्मराजन्याभ्या शूद्राय चार्याय च स्वाय चारणाय च ।

प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्ध्यतामुप मादो नमतु ।

यजमान - ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृताः ।

(पहली बार) सम्पूर्णा सुप्रभावा च तामृद्धिं प्रबुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ ऋद्ध्यताम् ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(दूसरी बार) करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ ऋद्ध्यताम् ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(तीसरी बार) करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ ऋद्ध्यताम् ।

ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम ।

दिवं पृथिव्या अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः ॥

यजमान - ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा ।

(पहिली बार) विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ आयुष्मते स्वस्ति ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(दूसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ आयुष्मते स्वस्ति ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(तीसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ आयुष्मते स्वस्ति ।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्‍ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

यजमान - ॐ समुद्रमथनाज्जाता जगदानन्दकारिका ।

(पहली बार) हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ अस्तु श्रीः ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(दूसरी बार ) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ अस्तु श्रीः ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(तीसरी बार ) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ अस्तु श्रीः ।

ॐ श्रीश्‍च ते लक्ष्मीश्‍च पत्‍न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्‍विनौ व्यात्तम् ।

इष्णन्निषानामुं म इषाण सर्वलोकं म इषाण ॥

यजमान - ॐ मृकण्डुनोरायुर्यद्‌ ध्रुवलोमशयोस्तथा ।

आयुषा तेन संयुक्ता जीवेम शरदः शतम् ॥

ब्राह्मण - ॐ शतं जीवन्तु भवन्तः ।

ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्‍चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥

यजमान - ॐ शिवगौरीविवाहे या या श्रीरामे नृपात्मजे ।

धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥

ब्राह्मण - ॐ अस्तु श्रीः ।

ॐ मनसः काममाकूतिं वाचः सत्यमशीय ।

पशूना रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥

यजमान - प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् ।

भगवाञ्छाश्‍वतो नित्यं नो वै रक्षतु सर्वतः ॥

ब्राह्मण - ॐ भगवान् प्रजापतिः प्रीयताम् ।

ॐ प्रजापते न त्वदेतान्यन्यो विश्‍वा रूपाणि परि ता बभूव ।

यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम पतयो रयीणाम् ॥

यजमान - आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।

श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ॥

देवेन्द्रस्य यथा स्वस्ति यथा स्वस्तिगुरोर्गृहे ।

एकलिङ्गेः यथा स्वस्ति तथा स्वस्ति सदा मम ॥

ब्राह्मण - ॐ आयुष्मते स्वस्ति ।

ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम् ।

येन विश्‍वाः परि द्विषो वृणक्ति विन्दते वसु ॥

ॐ पुण्याहवाचनसमृद्धिरस्तु ॥

यजमान - अस्मिन् पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुपविष्टब्राह्मणानां वचनात्

श्रीमहागणपतिप्रसादाच्च परिपूर्णोऽस्तु ।

दक्षिणाका संकल्प - कृतस्य पुण्याहवाचनकर्मणः समृद्ध्यर्थं

पुण्याहवाचकेभ्यो ब्राह्मणेभ्य इमां दक्षिणां विभज्य अहं दास्ये ।

ब्राह्मण - ॐ स्वस्ति ।

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2007-12-11T08:23:40.4032112Z
|-|-|
Comments | अभिप्राय