{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

अधिदेवताओंकी स्थापना




ईश्वरोन्मुख होनेके बाद मनुष्यको परमात्माके वास्तविक तत्वक परिज्ञान होने लगता है और फिर वह सदा सर्वदाके लिये जीवमुक्त हो जाता है, इसीलिये सारे कर्म शास्त्रकी आज्ञाके अनुसार होने चाहिये ।

Content
अधिदेवताओंकी स्थापना

अधिदेवताओंकी स्थापना

(हाथमें अक्षत-पुष्प लेकर निम्न मन्त्रोंको पढ़ते हुए चित्रानुसार नियत स्थानोंपर अधिदेवताओंके आवाहन-स्थापनपूर्वक अक्षत-

पुष्पोंको छोड़ता जाय ।)

१-

ईश्‍वर (सूर्यके दायें भागमें) आवाहन-स्थापन-

ॐ त्र्यम्बकं यजाम्हे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्मृत्योर्मूक्षीय मामृतात् ॥

एह्येहि विश्‍वेश्वर नस्त्रिशूलकपालखट्‌वाङ्गधरेण सार्धम् ।

लोकेश यक्षेश्‍वर यज्ञसिद्ध्यै गृहाण पूजां भगवन् नमस्ते ॥

ॐ भूर्भुवः स्वः ईश्‍वराय नमः, ईश्‍वरमावाहयामि, स्थापयामि ।

२-

उमा (चन्द्रमाके दायें भागमें ) आवाहन स्थापन-

ॐ श्रीश्‍च ते लक्ष्मीश्‍च पत्‍न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्‍विनौ व्यात्तम् । इष्णन्निषाणामुं म इषाण सर्वलोकं म इषाण ।

हेमाद्रितनया देवीं वरदां शङ्करप्रियाम् ।

लम्बोदरस्य जननीमुमामावाहयाम्याहम् ॥

ॐ भूर्भुवः स्वः उमायै नमः, उमामावाहयामि, स्थापयामि ।

३-

स्कन्द (मङ्गलके दायें भागमें) आवाहन-स्थापन-

ॐ यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ।

श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥

रुद्रतेजःसमुत्पन्नं देवसेनाग्रगं विभुम् ।

षण्मुखं कृत्तिकासूनुं स्कन्दमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः स्कन्दाय नमः, स्कन्दमावाहयामि, स्थापयामि ।

४-

विष्णु (बुधके दायें भागमें) आवाहन - स्थापन-

ॐ विष्णो रराटमसि विष्णोः श्‍नप्त्रे स्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोऽसि । वैष्णवमसि विष्णवे त्वा ॥

देवदेवं जगन्नाथं भक्तानुग्रहकारकम् ।

चतुर्भुजं रमानाथं विष्णुमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः विष्णवे नमः, विष्णुमावाहयामि, स्थापयामि ।

५-

ब्रह्मा (बृहस्पति के दायें भागमें) आवाहन- स्थापन-

ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायतां दोग्ध्री

धेनुर्वोढानड्‌वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे

नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥

कृष्णाजिनाम्बरधरं पद्मसंस्थं चतुर्मुखम् ।

वेदाधारं निरालम्बं विधिमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः ब्रह्मणे नमः, ब्रह्माणमावाहयामि, स्थापयामि ।

६-

इन्द्र (शुक्रके दायें भागमें) आवाहन -स्थापन-

ॐ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।

जहि शत्रू२रप मृधो नुदस्वाथाभयं कृणुहि विश्‍वतो नः ।

देवराजं गजारूढं शुनासीरं शतक्रतुम् ।

वज्रहस्तं महाबाहुमिन्द्रवाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः इन्द्राय नमः, इन्द्रमावाहयामि, स्थापयामि ।

७-

यम (शनिके दायें भागमें) आवाहन- स्थापन-

ॐ यमाय त्वाऽङ्गिरस्वते पितृमते स्वाहा ।

स्वाहा घर्माय स्वाहा घर्मः पित्रे ॥

धर्मराजं महावीर्यं दक्षिणादिक्पतिं प्रभुम् ।

रक्‍तेक्षणं महाबाहुं यममावाहयाम्यहम् ।

ॐ भूर्भुवः स्वः यमाय नमः, यममावाहयामि, स्थापयामि ।

८-

काल (राहुके दायें भागमें) आवाहन स्थापन-

ॐ कार्षिरसि समुद्रस्य त्वा क्षित्या उन्नयामि ।

समापो अद्भिरग्मत समोषधीभिरोषधीः ॥

अनाकारमनन्ताख्यं वर्तमानं दिने दिने ।

कलाकाष्ठादिरूपेण कालमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः कालाय नमः, कालमावाहयामि, स्थापयामि ।

९-

चित्रगुप्त (केतुके दायें भागमें) आवाहन-स्थापन-

ॐ चित्रावसो स्वस्ति ते पारमशीय ।

धर्मराजसभासंस्थं कृताकृतविवेकिनम् ।

आवाहये चित्रगुप्तं लेखनीपत्रहस्तकम् ॥

ॐ भूर्भुवः स्वः चित्रगुप्ताय नमः, चित्रगुप्तमावाहयामि, स्थापयामि ।

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2007-12-11T08:36:23.5705920Z
|-|-|
Comments | अभिप्राय