{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

दिक्पाल देवताओंकी स्थापना




ईश्वरोन्मुख होनेके बाद मनुष्यको परमात्माके वास्तविक तत्वक परिज्ञान होने लगता है और फिर वह सदा सर्वदाके लिये जीवमुक्त हो जाता है, इसीलिये सारे कर्म शास्त्रकी आज्ञाके अनुसार होने चाहिये ।

Content
दिक्पाल देवताओंकी स्थापना

नवग्रह मण्डलमें परिधिके बाहर पूर्वादि दसों दिशाओंके अधिपति देवताओं (दिक्पाल देवताओं) का अक्षत छोड़ते हुए आवाहन एवं
स्थापन करे ।

(पूर्वमें) इन्द्रका आवाहन और स्थापन -

ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव शूरमिन्द्रम् ।

ह्रयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः ॥

इन्द्रं सुरपतिश्रेष्ठं वज्रहस्तं महाबलम् ।

आवाहये यज्ञसिद्ध्यै शतयज्ञाधिपं प्रभुम् ॥

ॐ भूर्भुवः स्वः इन्द्र ! इहागच्छ, इह तिष्ठ इन्द्राय नमः, इन्द्रमावाहयामि, स्थापयामि ।

(अग्निकोणमें) अग्निका आवाहन और स्थापन -

ॐ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे । देवॉं२ आ सादयादिह ॥

त्रिपादं सप्तहस्तं च द्विमूर्धानं द्विनासिकम् ।

षण्नेत्रं च चतुःश्रोत्रमग्निमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः अग्ने ! इहागच्छ, इह तिष्ठ अग्नये नमः, अग्निमावाहयामि, स्थापयामि ।

(दक्षिणमें) यमका आवाहन और स्थापन-

ॐ यमाय त्वाऽङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा घर्मः पित्रे ॥

महामहिषमारूढं दण्डहस्ते महाबलम् ।

यज्ञसंरक्षणार्थाय यममावहयाम्यहम् ॥

ॐ भूर्भुवः स्वः यम ! इहागच्छ इह तिष्ठ यमाय नमः, यममावाहयामि, स्थापयामि ।

(नैऋत्यकोणमें) निऋतिका आवाहन और स्थापन-

ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्विहि तस्करस्य ।

अन्यमस्मदिच्छ सा त इत्या नमो देवि निऋते तुभ्यमस्तु ॥

सर्वप्रेताधिपं देवं निऋतिं नीलविग्रहम् ।

आवाहये यज्ञसिद्ध्यै नरारूढं वरप्रदम् ॥

ॐ भूर्भुवः स्वः निऋते ! इहागच्छ, इह तिष्ठ निऋतये नमः, निऋतिमावाहयामि, स्थापयामि ।

(पश्‍चिममें) वरुणका आवाहन और स्थापन-

ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।

अहेडमानो वरुणेह बोध्युरुश स मान आयुः प्रमोषीः ॥

शुद्धस्फटिकसंकाशं जलेशं यादसां पतिम् ।

आवाहये प्रतीचीशं वरुणं सर्वकामदम् ॥

ॐ भूर्भुवः स्वः वरुण ! इहागच्छ, इह तिष्ठ वरुणाय नमः, वरुणमावाहयामि, स्थापयामि ।

(वायव्यकोणमें) वायुका आवाहन और स्थापन-

ॐ आ नो नियुद्भिः शतिनीभिरध्वर सहस्त्रिणीभिरुप याहि यज्ञम् ।

वायो अस्मिन्त्सवने मादयस्व सर्वतश्‍चारिणं शुभम् ।

यज्ञसंरक्षणार्थाय वायुमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः वायो ! इहागच्छ, इह तिष्ठ वायवे नमः, वायुमावाहयामि, स्थापयामि ।

(उत्तरमें) कुबेरका आवाहन और स्थापन-

ॐ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।

इहेहैषां कृणुहि भोजनानि ने बर्हिषो नम उक्तिं यजन्ति ॥

उपयामगृहीतोऽस्यश्‍विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्ण ।

एष ते योनिस्तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥

आवहयामि देवेशं धनदं यक्षपूजितम् ।

महाबलं दिव्यदेहं नरयानगतिं विभुम् ॥

ॐ भूर्भुवः स्वः कुबेर ! इहागच्छ, इह तिष्ठ कुबेराय नमः, कुबेरमावाहयामि, स्थापयामि ।

(ईशानकोणमें) ईशानका आवाहन और स्थापन -

ॐ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।

पूषा नो यथा वेदसाम्सद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

सर्वाधिपं महादेवं भूतानां पतिमव्ययम् ।

आवाहये तमीशानं लोकानामभयप्रदम् ॥

ॐ भूर्भुवः स्वः ईशान ! इहागच्छ, इह तिष्ठ ईशानाय नमः, ईशानमावाहयामि, स्थापयामि ।

(ईशान-पूर्वके मध्यमें) ब्रह्माका आवाहन और स्थापन-

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।

स बुध्न्या उपमा अस्य विष्ठाः सतश्‍च योनिमसतश्‍च वि वः ॥

पद्मयोनिं चतुर्मूर्तिं वेदगर्भं पितामहम् ।

आवाहयामि ब्रह्माणं यज्ञसंसिद्धिहेतवे ॥

ॐ भूर्भुवः स्वः ब्रह्मन् ! इहागच्छ, इह तिष्ठ ब्रह्मणे नमः, ब्रह्माणमावाहयामि, स्थापयामि ।

(नैऋत्य-पश्‍चिमके मध्यमें) अनन्तका आवाहन और स्थापन-

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ।

अनन्तं सर्वनागानामधिपं विश्‍वरूपिणम् ।

जगतां शान्तिकर्तारं मण्डले स्थापयाम्यहम् ॥

ॐ भूर्भुवः स्वः अनन्त ! इहागच्छ, इह तिष्ठ अनन्ताय नमः, अनन्तमावाहयामि, स्थापयामि ।

प्रतिष्ठा - इस प्रकार आवाहन कर

'ॐ मनो०'

इस मन्त्रसे अक्षत छोड़ते हुए प्रतिष्ठा करे । तदनन्तर निम्नलिखित नाम-मन्त्रसे यथालब्धोपचार पूजन करे-

'ॐ इन्द्रादिदशदिक्पालेभ्यो नमः ।'

इसके बाद

'अनया पूजया इन्द्रादिदशदिक्पालाः प्रीयन्ताम्, न मम'

ऐसा उच्चारण कर अक्षत मण्डलपर छोड़ दे ।

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2007-12-11T08:43:49.9724864Z
|-|-|
Comments | अभिप्राय