{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

ब्रह्मेशशेषादिकृतं श्रीराधास्तोत्रं




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
ब्रह्मेशशेषादिकृतं श्रीराधास्तोत्रं

षष्टिवर्षसहस्राणि दिव्यानि परमेश्वरि । पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते ॥ १ ॥

त्वत्पादपद्ममधुरमधुलुब्धेन चेतसा । मधुव्रतेन लोभेन प्रेरितेन मया सति ॥ २ ॥

तथापि न मया लब्धं त्वद्पादपदमीप्सितम् । न दृष्टमपि स्वप्नेऽपि जाता वागशरीरिणी ॥ ३ ॥

वाराहे भारते वर्षे पुण्ये वृन्दावने वने । सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि ॥ ४ ॥

राधामाधवयोर्दास्यं कुतो विषयिणस्तव । निवर्तस्व महाभाग परमेतत् सुदुर्लभम् ॥ ५ ॥

इति श्रुत्वा निवृत्तोऽहं कुतो विषयिणस्तव । निवर्तस्व महाभाग परमेतत् सुदुर्लभम् ॥ ६ ॥

श्रीमहादेव उवाच । पद्मैः पद्मार्चितं पादपद्मं यस्य सुदुर्लभम् । ध्यायन्ते ध्याननिष्टाश्च शश्वद् ब्रह्मादयः सुराः ॥ ७ ॥

मुनयो मनवश्चैव सिद्धाः सन्तश्च योगिनः । द्रष्टुं नैव क्षमाः स्वप्ने भवती तस्य वक्षसि ॥ ८ ॥

अनत उवाच ।

वेदाश्च वेदमाता च पुराणानि च सुव्रते । अहं सरस्वती सन्तः स्तोतुं नालं च सन्ततम् ॥ ९ ॥

अस्माकं स्तवने यस्य भ्रभङ्गश्च सुदुर्लभभः । तवैव भर्त्सने भीतश्चावयोरन्तरं हरिः ॥ १० ॥

॥ इति श्रीब्रह्मवैवर्ते ब्रह्मेशशेषादिकृतं श्रीराधास्तोत्रं सम्पूर्णम् ॥

Translation - भाषांतर

N/A
Details
References :

sanskritdocuments.org/all_sa


Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T23:34:39.0000000Z
|-|-|
Comments | अभिप्राय