{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

गणेशकृतं श्री राधा स्तोत्रम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
गणेशकृतं श्री राधा स्तोत्रम्

तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे। ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता ॥ १॥

यत्पादपद्ममतुतलं ध्यायन्ते ते सुदुर्लभम् । सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ २॥

जिवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः । तस्य प्राणाधिदेवि त्वं प्रिया प्राणाधिका परा ॥ ३॥

वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः । महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ॥ ४॥

वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी । वेदानां जगतामेव मूलप्रकृतिरीश्वरी ॥ ५॥

सर्वाः प्राकृतिका मातः सृष्ट्यां च त्वद्विभूतयः । विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी ॥ ६॥

प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि । आदौ राधां समुच्चार्य पश्चात् कृष्णं परात्परम् ॥ ७॥

स एव पण्डितो योगी गोलोकं याति लीलया । व्यतिक्रमे महापी ब्रह्महत्यां लभेद् ध्रुवम् ॥ ८॥

जगतां भवती माता परमात्मा पिता हरिः । पितुरेव गुरुर्माता पूज्या वन्द्या परत्परा ॥ ९॥

भजते देवमन्यं वा कृष्णं वा सर्वकारणम् । पुण्यक्षेत्रे महामूढो यदि निन्दा राधीकाम् ॥ १०॥

वंशहानिर्भवेत्तस्य दुःखशोकमिहैव च । पच्यते निरते घोरे याव द्रदिवाकरौ ॥ ११॥

गुरुश्च ज्ञानोद्गिरणाज्ज्ञानं स्यान्मंत्रतंत्रयोः । स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद् युवयोर्यतः ॥ १२॥

निशेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि । भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे ॥ १३॥

निषेव्य मन्त्रं शम्भोश्च जगतां कारणस्य च । तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम् ॥ १४॥

युवयोः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् । क्षणार्धं षोडशांशं च न हि मुञ्चति दैवतः ॥ १५॥

भक्त्या च युवयोर्मन्त्रं गृहीत्वा वैष्णवादपि । स्तवं वा कवचं वापि कर्ममूलनिकृन्तनम् ॥ १६॥

यो जपेत् परया भक्त्या पुण्यक्षेत्रे च भारते । पुरुषाणां सहस्रं च स्वात्मना सार्धमुद्धरेत् ॥ १७॥

गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः । कवचं धारयेद् यो हि विष्णुतुल्यो भवेद् ध्रुवम् ॥ १८॥

॥ इति श्री ब्रह्मवैवर्ते गणेशकृतं श्रीराधास्तवनं सम्पूर्णम् ॥

Translation - भाषांतर

N/A
Details
References :

sanskritdocuments.org/all_sa


Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T23:35:01.0000000Z
|-|-|
Comments | अभिप्राय