{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्रीकृष्णकृतम् राधास्तोत्रम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
श्रीकृष्णकृतम् राधास्तोत्रम्

एवमेव प्रियोऽहं ते प्रमोदश्चैव ते मयि । सुव्यक्तमद्य कापट्यवचनं ते वरानने ॥ १ ॥

हे कृष्ण त्वं मम प्राणा जीवात्मेति च संततम् । ब्रूषे नित्यं तु यत् प्रेम्णा साम्प्रतं तद् गतं द्रुतम् ॥ २ ॥

अस्माकं वचनं सत्यं यद् व्रवीमिती तद् ध्रुवम् । पञ्चप्राणाधिदेवी त्वं राधा प्राणधिकेति मे ॥ ३ ॥

शक्तो न रक्षितुं त्वां च यान्ति प्राणस्त्वया विना । विनाधिष्ठातृदेवीं च को वा कुत्र च जीवति ॥ ४ ॥

महाविष्णोश्च माता त्वं मूलप्रकृतिरीश्वरी । सगुणा त्वं च कलया निर्गुणा स्वयमेव तु ॥ ५ ॥

ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा । भक्तानां रुचिवैचित्र्यन्नानामूर्तीश्च बिभ्रमती ॥ ६ ॥

महालक्ष्मिश्च वैकुण्ठे भारती च सतां प्रसूः । पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा ॥ ७ ॥

तुलसी पुण्यरूपा च गङ्गा भुवनपावनी । ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा ॥ ८ ॥

गोलोके राधिका त्वं च सर्वगोपालकेश्वरी । त्वया विनाहं निर्जीवो ह्यशक्तः सर्वकर्मसु ॥ ९ ॥

शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना । वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह ॥ १० ॥

नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः । फलं ददाति यज्ञश्च त्वया दक्षिणया सह ॥ ११ ॥

बिभर्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् । बिभर्ति गङ्गारूपां त्वां मूर्घ्नि गङ्गाधरः शिवः ॥ १२ ॥

शक्तिमच्च जगत् सर्वं शवरूपं त्वया विना । वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना ॥ १३ ॥

यथा मृदा घटं कर्तुं कुलालः शक्तिमान् सदा । सृष्टिं स्रष्टुं तथाहं च प्रकृत्या च त्वया सह ॥ १४ ॥

त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् । सर्वशक्तिखरूपा त्वं समागच्छ ममान्तिकम् ॥ १५ ॥

वह्नौ त्वं दाहिका शक्तिर्नाग्निः शक्तस्त्वया विना । शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः ॥ १६ ॥

प्रभारूपा हि सूर्ये त्वं विना न स भानुमान् । न कामः कामिनीबन्घुस्त्वया रत्या विना प्रिये ॥ १७ ॥

इत्येवं स्तवनं कृत्वा तां सम्प्राष जगत्प्रभुः । देवा बभूवुः सथीकाः सभार्याः शक्तिसंयुताः ॥ १८ ॥

सस्त्रीकं च जगत् सर्वं बभूव् शैलकन्यके । गोपीपूर्णश्च गोलोको बभूव तत्प्रसादतः ॥ १९ ॥

राजा च जगाम् गोलोकमिति स्तुत्वा हरिप्रियाम् । श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः ॥ २० ॥

कृष्णभक्तिं च तद्दास्यं स प्राप्नोति न संसयः । स्त्रीविच्छेदेयः शृणोति मासमेकमिदं शुचिः ॥ २१ ॥

अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीं । भार्याहीनो भाग्यहीनो वर्षमेकं शृणोति यः ॥ २२ ॥

अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीं । पुर मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति ॥ २३ ॥

मृतायां दक्षकन्यायामाज्ञया परमात्मनः । स्तोत्रेणानेन सम्प्राप्ता सावित्री ब्रह्मणा पुरा ॥ २४ ॥

पुरा दुर्वाससः शापान्निःश्रीके देवतागणे । स्तोत्रेणानेन देवैस्तैः सम्प्राप्ता श्रीः सुदुर्लभा ॥ २५ ॥

शृणोति वर्षमेकं च पुत्रार्थि लभते सुतम् । महाव्याधी रोगमुक्तो भवेत् स्तोत्रप्रसादतः ॥ २६ ॥

कार्तिकीपूर्णमायां तु तां सम्पूज्य पठेत्तु यः । अचलां श्रियमाप्नोति राजसूयफलं लभेत् ॥ २७ ॥

नारी शृणोति चेत् स्तोत्रं स्वामिसौभाग्यसंयुता । भक्त्या शृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम् ॥ २८ ॥

नित्यं पठति यो भक्त्या राधां सम्पूज्य भक्तितः । स प्रयाति च गोलोकं निर्मुक्तो भवबनात् ॥ २९ ॥

। इति श्रीब्रह्मवैवर्ते श्रीकृष्णकृष्णकृतं श्रीराधास्तोत्रं सम्पूर्णम् ।

Translation - भाषांतर

N/A
Details
References : sanskritdocuments.org/all_sa
Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T23:31:01.0000000Z
|-|-|
Comments | अभिप्राय