तव चरणसरोजे मन्मनश्चरीको भ्रमतु सततमीश प्रेमभक्त्या सरोजे ।
भवनमरणरोगात् पाहि शान्त्यौषधेन सुदृढसुपरिपक्वाम् देहि भक्तिं च दास्यम् ॥ १॥
शंकर उवाच ।
भवजलनिधिमग्नश्चित्तमीनो मदीयो भ्रमति सततमस्मिन् घोर्स।म्सार्कूपे ।
विषयमतिविनिन्द्यं सृष्टिसंहाररूपम्- अपनय तव भक्तिं देहि पादारविन्दे ॥ २॥
धर्म उवाच ।
तव निजजनसार्धं संगमो मे सदैव भवतु विषयबन्धच्छेदने तिक्ष्णखङ्गः ।
तव चरणसरोजस्थानदानैकहेतुर्- जनुषि जनुषि भक्तिं देहि पादारविन्दे ॥ ३॥
॥ इति श्रीब्रह्मवैवर्ते ब्रह्मादिकृतम् श्रीराधकृष्णस्तोत्रं सम्पूर्णम्॥