{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्री राधायाः परीहारस्तोत्रम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
श्री राधायाः परीहारस्तोत्रम्

त्वं देवी जगतां माता विष्णुमाया सनातनी । कृष्णप्राणाधिदेवि च कृष्णप्राणाधिका शुभा ॥ १॥

कृष्णप्रेममयी शक्तिः कृष्णसौभाग्यरूपिणी । कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ॥ २॥

अद्य मे सफलं जन्म जीवनं सार्थकं मम । पूजितासि मया सा च या श्रीकृष्णेन् पूजिता ॥ ३॥

कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता । रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ॥ ४॥

कृष्णप्रिया च गोलोके तुलसी कानने तुया । चम्पावती कृष्णसंगे क्रीडा चम्पककानने ॥ ५॥

चन्द्राक्ली चन्द्रवने शतश्रिङ्गे सतीति च । विरजादर्पहन्त्रि च विरजातटकानने ॥ ६॥

पद्मावती पद्मवने कृष्णा कृष्णसरोवरे । भद्रा कुञ्जकुटीरे च काम्या च काम्यके वने ॥ ७॥

वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि । क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया ॥ ८॥

सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी । सनातनी विष्णुमाया दुर्गा शंकरवक्षसि ॥ ९॥

सावित्री वे! दमाता च कलया ब्रह्मवक्षसि । कलया धर्मपत्नी त्वं नरनारायणप्रसूः ॥ १०॥

कलया तुलसी त्वं च गङ्गा भुवनपावनी । लोमकूपोद्भवा गोप्यः कलांशा हरिप्रिया ॥ ११ ॥

कलाकलांशरूपा च शतरूपा शचि दितिः। अदितिर्देव्माता च त्वत्कलांशा हरिप्रिया ॥ १२॥

देव्यश्च मुनिपत्न्यश्च्ज त्वत्कलाकलया शुभे । कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते॥ १३॥

एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् । पुरा कृतं स्तोत्रमेतद् भक्तिदास्यप्रदं शुभम् ॥ १४॥

॥ इति श्री ब्रह्मवैवर्ते श्रीराधायाः परीहारस्तोत्रं सम्पूर्णम् ॥

Translation - भाषांतर

N/A
Details
References :

sanskritdocuments.org/all_sa


Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T23:39:18.0000000Z
|-|-|
Comments | अभिप्राय