प्रातः स्मरामि हृदि संस्फुरदात्मतत्वं सच्चित् सुखं परमहंसगतिं तुरीयम् ।
यत् स्वप्नजागसुषुप्तिमवैति नित्यं तत् ब्रह्म निष्कलमहं न च भूतसंधः ॥ १॥
प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण ।
यं नेति नेति वचनैर्निगमा अवोचं स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २॥
प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरूषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजंगम इव प्रतिमासितं वै ॥ ३॥
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥ ४॥