{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

भक्तामर स्तोत्र




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
भक्तामर स्तोत्र

भक्तामर- प्रणत- मौलिमणि- प्रभाणा - मुद्योतकं दलित- पाप- तमोवितानम् ।

सम्यक् प्रणम्य जिन पादयुगं युगादा- वालंबनं भवजले पततां जनानाम्॥ १॥

यः संस्तुतः सकल- वाङ्मय- तत्व- बोधा- द्- उद्भूत- बुद्धिपटुभिः सुरलोकनाथैः।

स्तोत्रैर्जगत्त्रितय चित्त- हरैरुदरैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्॥ २॥

बुद्ध्या विनाऽपि विबुधार्चित पादपीठ स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् ।

बालं विहाय जलसंस्थितमिन्दु बिम्ब - मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३॥

वक्तुं गुणान् गुणसमुद्र शशाङ्क्कान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ।

कल्पान्त - काल् - पवनोद्धत - नक्रचक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥ ४॥

सोऽहं तथापि तव भक्ति वशान्मुनीश कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः ।

प्रीत्यऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं नाभ्येति किं निजशिशोः परिपालनार्थम् ॥ ५॥

अल्पश्रुतं श्रुतवतां परिहासधाम् त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ।

यत्कोकिलः किल मधौ मधुरं विरौति तच्चारुचूत - कलिकानिकरैकहेतु ॥ ६॥

त्वत्संस्तवेन भवसंतति - सन्निबद्धं पापं क्षणात् क्षयमुपैति शरीर भाजाम्।

आक्रान्त - लोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ ७॥

मत्वेति नाथ्!तव् संस्तवनं मयेद - मारभ्यते तनुधियापि तव प्रभावात् ।

चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफल - द्युतिमुपैति ननूदबिन्दुः ॥ ८॥

आस्तां तव स्तवनमस्तसमस्त - दोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति ।

दूरे सहस्त्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकाशभांजि ॥ ९॥

नात्यद्- भूतं भुवन- भुषण भूतनाथ भूतैर् गुणैर्- भुवि भवन्तमभिष्टुवन्तः तुल्या।

भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥ १०॥

दृष्टवा भवन्तमनिमेष- विलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः ।

पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥ ११॥

यैः शान्तरागरुचिभिः परमाणुभिस्तवं निर्मापितस्त्रिभुवनैक ललाम- भूत।

तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥ १२॥

वक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेष - निर्जित- जगत् त्रितयोपमानम् ।

बिम्बं कलङ्क- मलिनं क्व निशाकरस्य यद्वासरे भवति पांडुपलाशकल्पम् ॥ १३॥

सम्पूर्णमण्ङल - शशाङ्ककलाकलाप् शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति ।

ये संश्रितास्- त्रिजगदीश्वर नाथमेकं कस्तान्- निवारयति संचरतो यथेष्टम् ॥ १४॥

चित्रं किमत्र यदि ते त्रिदशांगनाभिर्- नीतं मनागपि मनो न विकार - मार्गम् ।

कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखिरं चलितं कदाचित् ॥ १५॥

निर्धूमवर्तिपवर्जित - तैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटी- करोषि ।

गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ् जगत्प्रकाशः ॥ १६॥

नास्तं कादाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति ।

नाम्भोधरोदर - निरुद्धमहाप्रभावः सूर्यातिशायिमहिमासि मुनीन्द्र!लोके ॥ १७॥

नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् ।

विभ्राजते तव मुखाब्जमनल्प कान्ति विद्योतयज्जगदपूर्व - शशाङ्कबिम्बम् ॥ १८॥

किं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दु - दलितेषु तमस्सु नाथ निष्मन्न।

शालिवनशालिनि जीव लोके कार्यं कियज्जलधरैर् - जलभार नम्रैः ॥ १९॥

ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु तेजः स्फुरन्मणिषु

याति यथा महत्वं नैवं तु काच - शकले किरणाकुलेऽपि ॥ २०॥

मन्ये वरं हरि- हरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति ।

किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ!भवान्तरेऽपि ॥ २१॥

स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता।

सर्वा दिशो दधति भानि सहस्त्ररश्मिं प्राच्येव दिग् जनयति स्फुरदंशुजालं ॥ २२॥

त्वामामनन्ति मुनयः परमं पुमांस- मादित्यवर्णममलं तमसः परस्तात् ।

त्वामेव सम्यगुपलभ्य जयंति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्र!पन्थाः ॥ २३॥

त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनंगकेतुम् योगीश्वरं

विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४॥

बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात्, त्वं शंकरोऽसि भुवनत्रय शंकरत्वात् ।

धाताऽसि धीर !शिवमार्ग- विधेर्विधानात्, व्यक्तं त्वमेव भगवन्!पुरुषोत्तमोऽसि ॥ २५॥

तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ । तुभ्यं नमः क्षितितलामलभूषणाय ।

तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन !भवोदधि शोषणाय ॥ २६॥

को विस्मयोऽत्र यदि नाम गुणैरशेषैस् - त्वं संश्रितो निरवकाशतया मुनीश!

दोषैरूपात्त विविधाश्रय जातगर्वैः, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७॥

उच्चैरशोक- तरुसंश्रितमुन्मयूख- माभाति रूपममलं भवतो नितान्तम् ।

स्पष्टोल्लसत्किरणमस्त- तमोवितानं बिम्बं रवेरिव पयोधर पार्श्ववर्ति ॥ २८॥

सिंहासने मणिमयूखशिखाविचित्रे, विभ्राजते तव वपुः कनकावदातम् ।

बिम्बं वियद्विलसदंशुलता - वितानं, तुंगोदयाद्रि - शिरसीव सहस्त्ररश्मेः ॥ २९॥

कुन्दावदात - चलचामर - चारुशोभं, विभ्राजते तव वपुः कलधौतकान्तम् ।

उद्यच्छशांक - शुचिनिर्झर - वारिधार- , मुच्चैस्तटं सुर गिरेरिव शातकौम्भम् ॥ ३०॥

छत्रत्रयं तव विभाति शशांककान्त- मुच्चैः स्थितं स्थगित भानुकर - प्रतापम् ।

मुक्ताफल - प्रकरजाल - विवृद्धशोभं, प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥ ३१॥

गम्भीरतारवपूरित - दिग्विभागस्- त्रैलोक्यलोक - शुभसंगम भूतिदक्षः ।

सद्धर्मराजजयघोषण - घोषकः सन्, खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ॥ ३२॥

मन्दार - सुन्दरनमेरू - सुपारिजात सन्तानकादिकुसुमोत्कर- वृष्टिरुद्धा ।

गन्धोदबिन्दु - शुभमन्द - मरुत्प्रपाता, दिव्या दिवः पतित ते वचसां ततिर्वा ॥ ३३॥

शुम्भत्प्रभावलय - भूरिविभा विभोस्ते, लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती ।

प्रोद्यद्- दिवाकर - निरन्तर भूरिसंख्या दीप्त्या जयत्यपि निशामपि सोम- सौम्याम् ॥ ३४॥

स्वर्गापवर्गगममार्ग - विमार्गणेष्टः, सद्धर्मतत्वकथनैक - पटुस्त्रिलोक्याः ।

दिव्यध्वनिर्भवति ते विशदार्थसत्व भाषास्वभाव - परिणामगुणैः प्रयोज्यः ॥ ३५॥

उन्निद्रहेम - नवपंकज - पुंजकान्ती, पर्युल्लसन्नखमयूख- शिखाभिरामौ ।

पादौ पदानि तव यत्र जिनेन्द्र !धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३६॥

इत्थं यथा तव विभूतिरभूज्जिनेन्द्र, धर्मोपदेशनविधौ न तथा परस्य ।

यादृक् प्रभा दिनकृतः प्रहतान्धकारा, तादृक्- कुतो ग्रहगणस्य विकाशिनोऽपि । ३७॥

श्च्योतन्मदाविलविलोल- कपोलमूल मत्तभ्रमद्- भ्रमरनाद - विवृद्धकोपम् ।

ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३८॥

भिन्नेभ - कुम्भ - गलदुज्जवल - शोणिताक्त, मुक्ताफल प्रकर - भूषित भुमिभागः ।

बद्धक्रमः क्रमगतं हरिणाधिपोऽपि, नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ ३९॥

कल्पांतकाल - पवनोद्धत - वह्निकल्पं, दावानलं ज्वलितमुज्जवलमुत्स्फुलिंगम् ।

विश्वं जिघत्सुमिव सम्मुखमापतन्तं, त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ४०॥

रक्तेक्षणं समदकोकिल - कण्ठनीलं, क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ।

आक्रामति क्रमयुगेन निरस्तशंकस्- त्वन्नाम नागदमनी हृदि यस्य पुंसः ॥ ४१॥

वल्गत्तुरंग गजगर्जित - भीमनाद- माजौ बलं बलवतामपि भूपतिनाम् !

उद्यद्दिवाकर मयूख - शिखापविद्धं, त्वत्- कीर्तनात् तम इवाशु भिदामुपैति ॥ ४२॥

कुन्ताग्रभिन्नगज - शोणितवारिवाह वेगावतार - तरणातुरयोध - भीमे ।

युद्धे जयं विजितदुर्जयजेयपक्षास्- त्वत्पाद पंकजवनाश्रयिणो लभन्ते ॥ ४३॥

अम्भौनिधौ क्षुभितभीषणनक्रचक्र- पाठीन पीठभयदोल्बणवाडवाग्नौ रंगत्तरंग -

शिखरस्थित - यानपात्रास्- त्रासं विहाय भवतःस्मरणाद् व्रजन्ति ॥ ४४॥

उद्भूतभीषणजलोदर - भारभुग्नाः शोच्यां दशामुपगताश्च्युतजीविताशाः ।

त्वत्पादपंकज- रजोऽमृतदिग्धदेहा, मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४५॥

आपाद - कण्ठमुरूश्रृंखल - वेष्टितांगा, गाढं बृहन्निगडकोटिनिघृष्टजंघाः ।

त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगत- बन्धभया भवन्ति ॥ ४६॥

मत्तद्विपेन्द्र - मृगराज - दवानलाहि संग्राम - वारिधि - महोदर- बन्धनोत्थम् ।

तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥ ४७॥

स्तोत्रस्त्रजं तव जिनेन्द्र !गुणैर्निबद्धां, भक्त्या मया विविधवर्णविचित्रपुष्पाम् ।

धत्ते जनो य इह कंठगतामजस्रं, तं मानतुंगमवशा समुपैति लक्ष्मीः ॥ ४८॥

Translation - भाषांतर

N/A
Details
References :

sanskritdocuments.org/all_sa


Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T23:47:16.0000000Z
|-|-|
Comments | अभिप्राय