{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्री दक्षिणामूर्ति नवरत्नमालिका स्तोत्रम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
श्री दक्षिणामूर्ति नवरत्नमालिका स्तोत्रम्

मूलेवटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेषमुकुलीकृतपाणिपद्मम् ।

मन्दस्मितं मधुरवेषमुदारमाद्यं तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम् ॥ १॥

शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरमाननं चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् ।

वीणापुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रांकरै- र्बिभ्राणं कलये हृदा मम सदा शास्तारमिष्टार्थदम् ॥ २॥

कर्पूरपात्रमरविन्ददळायताक्षं कर्पूरशीतलहृदं करुणाविलासम् ।

चन्द्रार्धशेखरमनन्तगुणाभिराम- मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३॥

द्युद्रोधः स्वर्णमयासनस्थं मुद्रोल्लसद्बाहुमुदारकायम् ।

सद्रोहिणीनाथकळावतंसं भद्रोदधिं कञ्चन चिन्तयामः ॥ ४॥

उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम् ।

पिङ्गाक्षं मृगशावकस्थितिकरं सुब्रह्मसूत्राकृतिम् भक्तानामभयप्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५॥

श्रीकान्तद्रुहिणोपमन्यु तपन स्कन्देन्द्रनन्द्यादयः प्राचीनागुरवोऽपियस्य करुणालेशाद्गतागौरवम् ।

तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं चिन्मुद्राकृतिमुग्धपाणिनळिनं चित्तं शिवं कुर्महे ॥ ६॥

कपर्दिनं चन्द्रकळावतंसं त्रिणेत्रमिन्दुपतिमाननोज्वलम् ।

चतुर्भुजं ज्ञानदमक्षसूत्र- पुस्ताग्निहस्तं हृदि भावयेच्छिवम् ॥ ७॥

वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिंगितां श्यामामुत्पलधारिणी शशिनिभांचालोकयन्तं शिवम् ।

आश्लिष्टेन करेण पुस्तकमधो कुंभं सुधापूरितं मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालां भजे ॥ ८॥

वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् । कञ्चनदेशिकमाद्यं कैवल्यानन्दकन्दळं वन्दे ॥ ९॥

॥ इति श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रं संपूर्णम् ॥

Translation - भाषांतर

N/A
Details
References :

sanskritdocuments.org/all_sa



Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-08T00:28:25.0000000Z
|-|-|
Comments | अभिप्राय