{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

वीरेश्वरस्तोत्रम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
वीरेश्वरस्तोत्रम्

श्रीगणेशाय नमः ॥

एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नो नास्ति किंचित् ॥

एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥१॥

एकः कर्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूप ॥

यद्वत्प्रत्यक्पूर्ण एकोऽप्यनेकस्तस्मान्नान्यं त्वां दिनेशं प्रपद्ये ॥२॥

रज्जौ सर्पः शुक्तिकायां च रौप्यं पाथः पूरस्तन्मृगाख्ये मरीचौ ॥

यद्वत्तद्वद्विष्वगेव प्रपञ्चो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम् ॥३॥

तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ॥

पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥४॥

शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् ॥

व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥५॥

नो वेदस्त्वामीश साक्षाद्विवेद नो वा विष्णुर्नो विधाताऽखिलस्य ॥

नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥६॥

नो ते गोत्रं नेश जन्मापि नाख्या नो वा रूपं नैव शीलं न देशः ॥

इत्थंभूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ॥७॥

त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ॥

त्वं वै शुद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किं नास्त्यतस्त्वा नतोऽस्मि ॥८॥

स्तुत्वेति विप्रो निपपात भूमौ स दण्डवद्यावदतीव ह्रष्टः ॥

तावत्स बालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं गृणीहि ॥९॥

तत उत्थाय ह्रष्टात्मा मुनिर्विश्वानरः कृतो ॥

प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥१०॥

सर्वान्तरात्मा भगवान्सर्वः सर्वप्रदो भवान् ॥

याच्ञ्चां प्रति नियुंक्ते मा किमीशो दैन्यकारिणीम् ॥११॥

इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ॥

शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवीच्छिशुः ॥१२॥

बाल उवाच ॥ त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो ह्रदि ॥

अचिरेणैव कालेन स भविष्यत्यसंशयम् ॥१३॥

तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ॥

ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥१४॥

अभिलाषाष्टकं पुण्यं स्तोत्रमेतन्मयेरितम् ॥

अब्दं त्रिकालपठनात्कामदं शिव संनिधौ ॥१५॥

एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम् ॥

सर्वशान्तिकरं वापि सर्वापत्त्यरिनाशनम् ॥१६॥

स्वर्गापवर्गसम्पत्तिकारकं नात्र संशयः ॥

प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवम् ॥१७॥

वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान् भवेत् ॥

वैशाखे कार्तिके माघे विशेषनियमेर्युतः ॥१८॥

यः पठेत्स्नानसमये स लभेत्सकलं फलम् ॥

कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥१९॥

तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति ॥

अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥२०॥

गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ॥

स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ॥२१॥

अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ॥

इत्युक्त्वाऽन्तर्दधे बालः सोऽपि विप्रो गृहं ययौ ॥२२॥

इति श्रीस्कन्दपुराणे काशीखण्डे श्रीवीरेश्वरस्तोत्रम् ।

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-02-28T02:27:42.5388928-05:00
|-|-|
Comments | अभिप्राय