{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

अथ श्रीदत्तात्रेयस्तोत्राणि ।




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
अथ श्रीदत्तात्रेयस्तोत्राणि ।

श्रीगुरुराजस्तवः ।

श्रीसद्‍गुरवे नमः ॥

सद्‌गुरुं भज सद्‌गुरुं भज सद्‌गुरुं भज वुद्धिमन् येन संसृतिपारमेष्यसि मुक्त इत्यपि गास्यसे ॥

आसुरीं त्यज संपदं विपदां पदं मुनिगर्हितां तर्हि तां भज संपदं मुनिसंस्तुतां भगवत्प्रियाम् ॥१॥

गर्वपर्वतमस्तके तव संस्थितिर्नहि शोभते पातमेण्यसि घातकर्मणि युज्यसे नतु पूज्यसे ॥

सात्त्विकं फलमश्‍नुषे यदि सत्यवृत्तपरायणो दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥२॥

दंभमार्गपरायणं यदि सत्फलाय भवत्यहो इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् ॥

कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चांतरे मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥३॥

भुक्तताऽपि मुमुक्षुता कपटौघमूलनिकृंतनी नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् ॥

केषु ते गणना भवेद्वद विद्यवेद्यसमांतरे भासुरं जनजन्म कर्म निरर्थकं कुरुषे कुतः ॥४॥

साधुचित्तविखंडनाद्भगवत्प्रियावपि दानवौ तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्तकौ ॥

तेन हीनबलावथो नृपनामदूषकराक्षसौ कृष्णहिंसनतत्पराविति कर्मणो गहना गतिः ॥५॥

ब्रह्मनिष्ठविमाननान्निजसूनुगीतहरेः पदे द्वेष आविरभूद्भवग्रहमांत्रिके निजसेविते ॥

दानवस्य च दानधर्मपरायणस्य च रक्षसः शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥६॥

जीवतामपहापयञ्छिवतां दिशत्यतिकौशलात् पूर्ववत्स्थितविश्वमेष तिरःकरोत्यति लीलया ॥

तं गुरुं भज नम्रमोचनकारकं भवतारकं तत्र शात्रवमत्र यच्छति वृक्षतां पितृकानने ॥७॥

श्रीगुरौः पदपंकजं भजतां सतां सततं हरिः संनिधाविति सर्वशासनसारमेतदुदीरितम् ॥

तन्महत्त्वमहांबुधेरपरं तटं न हि केचन प्राप्नुवन्ति परावरज्ञाः पंडिताः सनकादयः ॥८॥

शब्दमूलमहो गुरुः शिवजीवविश्वभिदास्पदं विश्वजीवशिवादिनामत एष एव हि बुध्यते ॥

वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं लक्ष्यभूतवपुर्गुरुस्तमु जानते न हि कश्चन ॥९॥

वृत्त्यनाश्रितचित्स्वरूपकं एष एव समः प्रभो वृत्तिरूढचिदंबरं खलु जीव ईश इदं जगत् ॥

जन्ममृत्युनियामकः परमेश्वरः स तु भोगभुग्जन्ममृत्युनिवारकः परमेश्वरादतिरिच्यते ॥१०॥

ब्रह्मरन्ध्रपदं गुरोर्ह्रदयं शिवस्य निजास्पदं स्थानमेव हि तत्स्वरूपविनिर्णयाय भवत्फलम् ॥

ह्रद्यतो विषयान्भजत्यथ नैव किंचन रंध्रगो यच्छति क्रमतः फलं वद मुक्तिदोऽस्त्यनयोस्तु कः ॥११॥

तत्स्वरूपविमर्शनं गुरुपादुकामनुसंशितं तन्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते ॥

लाभतो गुरुणा सहैक्यविमर्शनं परमं पदं तत्र मुक्तिवरांगना वृणुते स्वयं निजसंपदा ॥१२॥

तत्र यो विमुखो नरो निजघातकीति निगद्यते तस्य संमुखतां भजन् परमद्वयं भवति क्षणात् ॥

ऋक्‌श्रुतिः शतधारमित्यपि नौति तां गुरुपादुका कृष्णभिक्षुरिमं स्तवं पदपंकजेऽर्पयते गुरोः ॥१३॥

द्रोणपर्वतवासिने नतशासिने मतिकाशिने हारिणे विपदां मुहुर्मम दायिनेऽखिलसंपदाम् ॥

सच्चिदादिसुकाभिधाय यतीश्वराय सहस्त्रशः संतु मे नतयो दयोदकसागराय दिने दिने ॥१४॥

स्तोत्रमेतदभीष्टसिद्धिदमासुरव्रतहारकं तारकं निजदेशिकेंद्रपदाब्जयोर्दृढसन्मतेः ॥

यः पठेत्प्रयतः शुचिः सुविचार्य भूरि दिने दिने मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥१५॥

इति श्रीमत्कृष्णानन्दसरस्वतीकृतगुरुराजस्तवः सम्पूर्णः

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-02-28T02:55:39.5903744-05:00
|-|-|
Comments | अभिप्राय