श्रीगणेशाय नमः ॥
यं विज्ञातुं भृगुः स्वं पितरमुपगतः पञ्चवारं यथावज्ज्ञानादेवामृताप्तेः सततमनुपमं चिद्विवेकादि लब्धवा ॥
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्दमुक्तानन्ताद्वैतप्रतीतं न कुरु कितवतां पाहि मां दीनबन्धो ॥१॥
यस्मान्नश्यस्य जन्मस्थितिविलयमिमे तैत्तिरीयाः पठन्ति स्वाविद्यामात्रयोगात्सुखशयनतले मुख्यतः स्वप्नवच्च ॥ तस्मै० ॥२॥
यो वेदान्तैकलभ्यः श्रुतिषु नियमितस्तैत्तिरीयैश्च काण्वैरन्यैरप्यानिषेकादुदयपरिमितं चारुसंस्कारभाजाम् ॥ तस्मै० ॥३॥
यस्मिन्नेवावसन्नाः सकलनिगमवाङ्मौलयः सुप्तपुंसि प्रोक्तं तन्नाम यद्वै निजमहिमगतध्वान्ततत्कार्यरूपे ॥तस्मै० ॥४॥
चित्त्वात्सङ्कल्पपूर्वं सृजति जगदिदं योगिवन्मायया यः स्वात्मन्येवाद्वितीये परमसुखदृशि स्वप्नवद्भूम्नि नित्ये ॥ तस्मै० ॥५॥
इत्यच्युतयतिविरचितं गुरुवरप्रार्थनापञ्चरत्नस्तोत्रं सम्पूर्णम् ।
॥इति दत्तात्रेयस्तोत्राणि ॥