{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

उपदेशपञ्चकम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

Content
उपदेशपञ्चकम्

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयता

तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।

पापौघः परिधूयतां भवसुखे दोषोऽनुसंधीयता-

मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥१॥

सङ्‌गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां

शान्त्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम् ।

सद्दिद्दानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां

ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥२॥

वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां

दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसंधीयताम् ।

ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां

देहेऽहंमतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥३॥

क्षुद्द्याधिश्व चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां

स्वाद्दन्नं न तु याच्यतां विधिवशात्प्राप्तेन संतुष्यताम् ।

शीतोष्नादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-

मौदासीन्यमभीप्स्यतां जनकृपा नैष्ठुर्यमुत्सृज्यताम् ॥४॥

एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां

पूर्णात्मा सुसमीक्ष्यता जगदिदं तद्बाधितं दृश्यताम् ।

प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां

प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥५॥

यः श्लोकपञ्चकमिदं पठते मनुष्यः

सञ्चिन्तयत्यनुदिनं स्थिरतामुपेत्य ।

तस्याशु संसृतिदवानलतीव्रघोर-

तापः प्रशान्तिमुपयाति चितिप्रसादात् ॥६॥

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-03-28T21:42:41.5040912-04:00
|-|-|
Comments | अभिप्राय