निरुपमनित्यनिरंशकेऽप्यखण्डे
मयि चिति सर्वविकल्पनादिशून्ये ।
घटयति जगदीशजीवभेदं,
अघटितघटनापटीयसी माया ॥१॥
श्रुतिशतनिगमान्तशोधका-
नप्यहह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतुष्पदाद्यभिन्नान्,
अघटितघटनापटीयसी माया ॥२॥
सुखचिदखण्डविबोधमद्वितीयं
वियदनलादिविनिर्मिते नियोज्य ।
भ्रमयति भवसागरे नितान्तं,
अघटितघटनापटीयसी माया ॥३॥
अपगतगुणवर्णजातिभेदे
सुखचिति विप्रविडाद्यंहंकृति च ।
स्फुटयति सुतदारगेहमोह
अघटितघटनापटीयसी माया ॥४॥
विधिहरिहरभेदमप्यखण्डे
बत विरचय्य बुधानपि प्रकामम् ।
भ्रमयति हरिहरविभेदभावान्
अघटितघटनापटीयसी माया ॥५॥