{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

अनात्मश्रीविगर्हणम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

Content
अनात्मश्रीविगर्हणम्

लब्धा विद्या राजमान्या ततः किं

प्राप्ता संपत्प्राभवाढ्या ततः किम् ।

भुक्ता नारी सुन्दराङ्गी ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१॥

केयूराद्यैर्भूषितो वा ततः किं

कौशेयाद्यैरावृतो वा ततः किम् ।

तृप्तो मृष्टान्नादिना वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥२॥

दृष्टा नाना चारुदेशास्ततः किं

पुष्टाश्चेष्टा बन्धुवर्गास्ततः किम् ।

नष्टं दारिद्र्यादि दुःखं ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥३॥

स्नातं तीर्थे जह्‌नुजादौ ततः किं

दानं दत्तं द्व्यष्टसंख्यं ततः किम् ।

जप्ता मन्त्राः कोटिशो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥४॥

गोत्रं सम्यग्भूषितं वा ततः किं

गात्रं भस्माच्छादितं वा ततः किम् ।

रुद्राक्षादिः संधृतो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥५॥

अन्नैर्विप्रास्तर्पिता वा ततः किं

यज्ञैर्देवास्तोषिता वा ततः किम् ।

कीर्त्या व्याप्ताः सर्वलोकास्ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥६॥

कायः क्लिष्टश्चोपवासैस्ततः किं

लब्धाः पुत्राः स्वीयपत्न्यास्ततः किम् ।

प्राणायामः साधितो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥७॥

यद्धे शत्रुर्निर्जितो वा ततः किं

भूयो मित्रैः पूरितो वा ततः किम् ।

योगैः प्राप्ताः सिद्धयो वा तथ किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥८॥

अब्धिः पद्भ्यां लङ्‌घ्रितो वा ततः किं

वायुः कुम्भे स्थापितो वा ततः किम् ।

मेरुः पाणावुद्‌धृतो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥९॥

क्ष्वेलः पीतो दुग्धवद्दा ततः किं

वह्निर्जग्धो लाजवद्दा ततः किम् ।

प्राप्तश्चारः पक्षिवत्खे ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१०॥

बद्धाः सम्यक्पावकाद्यास्ततः किं

साक्षद्दिद्धा लोहवर्यास्ततः किम् ।

लब्धो निक्षेपोऽञ्जनाद्यैस्ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥११॥

भूपेन्द्रत्वं प्राप्तमुर्व्याम ततः किं

देवेन्द्रत्वं संभृतं वा ततः किम् ।

मुण्डीन्द्रत्वं चोपलब्धं ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१२॥

मन्त्रैः सर्वं स्तम्भितो वा ततः किं

बाणैर्लक्ष्यो भेदितो वा ततः किम् ।

कालज्ञानं चाऽपि लब्धं ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१३॥

कामातङ्‌कः खण्डितो वा ततः किं

कोपावेशः कुण्ठितो वा ततः किम् ।

लोभाश्लेषो वर्जितो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१४॥

मोहध्वान्थ पेषितो वा ततः किं

जातो भूमौ निर्मदो वा ततः किम् ।

मात्सर्यार्तिर्मीलिता वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१५॥

धातुर्लोकः साधितो वा ततः किं

विष्णोर्लोको वीक्षितो वा ततः किम् ।

शंभोर्लोकः शासितो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१६॥

यस्येदं ह्रदये सम्यगनात्मश्रीविगर्हणम् ।

सदोदेति स एवात्मसाक्षात्कारस्य भाजनम् ॥१७॥

अन्ये तु मायिकजगद्‌भ्रान्तिव्यामोहमोहिताः।

न तेषां जायते क्वाऽपि स्वात्मसाक्षात्कृतिर्भुवि ॥१८॥

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-03-28T21:46:26.4475440-04:00
|-|-|
Comments | अभिप्राय