{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

स्वरूपानुसन्धानाष्टकम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

Content
स्वरूपानुसन्धानाष्टकम्

तपोयज्ञदानादिभिः शुद्धबुद्धिर्‌

विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।

परित्यज्य सर्वं यदाप्नोति तत्त्वं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥१॥

दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं

समाराध्य भक्त्या विचार्य स्वरुपम् ।

यदाप्नोति तत्त्वं निदिध्यास्य विद्वान्

परं ब्रह्म नित्यं तदेवाहमस्मि ॥२॥

यदानन्दरूपं प्रकाशस्वरूपं

निरस्तप्रपञ्चं परिच्छेदहीनम् ।

अहंब्रह्मवृत्येकगम्यं तुरीयं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥३॥

यदज्ञानतो भाति विश्वं समस्तं

विनष्टं च सद्यो यदात्मप्रबोधे ।

मनोवागतीतं विशुद्धं विमुक्तं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥४॥

निषेधे कृते नेति नेतीति वाक्यैः

समाधिस्थितानां यदाभाति पूर्णम् ।

अवस्थात्रयातीतमद्वैतमेकं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥५॥

यदानन्दलेशैः समानन्दि विश्वं

यदाभाति सत्त्वे तदाभाति सर्वम् ।

यदालोचिते हेयमन्यत्स्मस्तं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥६॥

अनन्तं विभुं सर्वयोनिं निरीहं

शिवं सङ्‌गहीनं यदोङ्‌कारगम्यम् ।

निराकारमत्युज्ज्वलं मृत्युहीनं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥७॥

यदानन्दसिन्धौ निमन्गः पुमान्स्या-

दविद्याविलासः समस्तप्रपञ्चः ।

तदा न स्फुरत्यद्‌भूतं यन्निमित्तं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥८॥

स्वरूपानुसन्धानरूपां स्तुतिं यः

पठेदादराद्भक्तिभावो मनुष्यः ।

शृणोतीह वा नित्यमुद्युक्तचित्तो

भवेद्दिष्णुरत्रैव वेदप्रमाणात् ॥९॥

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-03-28T21:47:40.0033120-04:00
|-|-|
Comments | अभिप्राय