तपोयज्ञदानादिभिः शुद्धबुद्धिर्
विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥१॥
दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य भक्त्या विचार्य स्वरुपम् ।
यदाप्नोति तत्त्वं निदिध्यास्य विद्वान्
परं ब्रह्म नित्यं तदेवाहमस्मि ॥२॥
यदानन्दरूपं प्रकाशस्वरूपं
निरस्तप्रपञ्चं परिच्छेदहीनम् ।
अहंब्रह्मवृत्येकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥३॥
यदज्ञानतो भाति विश्वं समस्तं
विनष्टं च सद्यो यदात्मप्रबोधे ।
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥४॥
निषेधे कृते नेति नेतीति वाक्यैः
समाधिस्थितानां यदाभाति पूर्णम् ।
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥५॥
यदानन्दलेशैः समानन्दि विश्वं
यदाभाति सत्त्वे तदाभाति सर्वम् ।
यदालोचिते हेयमन्यत्स्मस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥६॥
अनन्तं विभुं सर्वयोनिं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् ।
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥७॥
यदानन्दसिन्धौ निमन्गः पुमान्स्या-
दविद्याविलासः समस्तप्रपञ्चः ।
तदा न स्फुरत्यद्भूतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥८॥
स्वरूपानुसन्धानरूपां स्तुतिं यः
पठेदादराद्भक्तिभावो मनुष्यः ।
शृणोतीह वा नित्यमुद्युक्तचित्तो
भवेद्दिष्णुरत्रैव वेदप्रमाणात् ॥९॥