{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

जीवन्मुक्तानन्दलहरी




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

Content
जीवन्मुक्तानन्दलहरी

पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान्

सुवेशान्स्वर्नालंकरणकलितांश्चित्रसदृशान् ।

स्वयं साक्षी द्रष्टेत्यपि च कलयंस्तैः सह रमन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१॥

वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखान्

घनच्छायाच्छन्नान्बहुलकलकूजदद्दिजगणान ।

भजन्घस्त्रे रात्राववनितलतल्पैकशयनो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥२॥

कदाचित्प्रासादे क्वचिदपि च सौधे च धवले

कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।

कुटीरे दान्तानां मुनिजनवरानामपि वसन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥३॥

क्वचिद्‌बालैः सार्धं करतलजतालैश्च हसितैः

क्वचिद्वै तारुण्याङ्कितचतुरनार्या सह रमन् ।

क्वचिद्‌ ऋद्धैश्चिन्ताकुलितह्रदयैश्चाऽपि विलपन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥४॥

कदाचिद्दिद्दद्भिर्विविदिषुभिरत्यन्तनिरतैः

कदाचित्काव्यालंकृतिरसरसालैः कविवरैः ।

कदाचित्सत्तर्कैरनुमितिपरैस्तार्किकवरैर्‌

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥५॥

कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः

सुगन्धैः सत्पुष्पैः क्वचिदपि दलैरेव विमलैः ।

प्रकुर्वन् देवस्य प्रमुदितमनाः संस्तुतिपरो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥६॥

शिवायाः शम्भोर्वा क्वचिदपि विष्णोरपि कदा

गणाध्यक्षस्याऽपि प्रकटतपनस्यापि च कदा ।

पठन्वै नामालिं नयनरचितानन्दसलिलो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥७॥

कदा गङ्गाम्भोभिः क्वचिदपि कूपोत्थितजलैः

क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।

भजन् स्नानं भूत्या क्वचिदप च कर्पूरनिभया

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥८॥

कदाचिज्जागर्त्यां विषयकरणैः संव्यवहरन्

कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् ।

कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥९॥

कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः

क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।

मनस्वी निःशङ्‌कः सुजनह्रदयानन्दजनको

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१०॥

कदाचित्सत्त्वस्थः क्वचिदपिरजोवृत्तियुगत-

स्तमोवृत्तिः क्वऽपि त्रितयरहितः क्वापि च पुनः ।

कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥११॥

कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः

कदाचित्स्वानन्दे हसति रभसा त्यक्तवचनः ।

कदाचिल्लोकानां व्यवह्रतिसमालोकनपरो

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१२॥

कदाचिच्छक्तीनां विकचमुखपद्मेषु कवलान्

क्षिपंस्तासा क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।

तदद्वैतं रुपं निजपरविहीनं प्रकटयन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१३॥

क्वचिच्छैवैः सार्ध्म क्वचिदपि च शाक्तैः सह रमन्

कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।

कदाचिद्‌गाणेशैर्गतसकलभेदोऽद्वयतया

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१४॥

निराकारं क्वापि क्वचिदपि च साकारममलं

निजं शैवं रूपं विविधगुणभेदेन बहुधा ।

कदाश्चर्य्म पश्यन् किमिदमिति ह्रष्यन्नपि कदा

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१५॥

कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं

महावाक्यार्थानामवगतिसमभ्यासवशतः ।

गतद्वैताभासः शिव शिव शिवेत्येव विलपन्

मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१६॥

इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा

सुधापाङ्‍गावाप्यां सहजसुखवाप्यामनुदिनम् ।

मुहुर्मज्जन् मज्जन् भजति सुकृतैश्चेन्नरवर-

स्तदा त्यागी योगी कविरिति वदन्तीह कवयः ॥१७॥

मौने मौनी गुणिनि गुणवान् पण्डिते पण्डितश्च

दीने दीनः सुखिनि सुखवान भोगिनि प्राप्तभोगः

मूर्खे मूर्खो युवतिषु युवा वाग्मिनि प्रौढवाग्मी

धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधूतः ॥१८॥

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-03-28T21:48:58.3159200-04:00
|-|-|
Comments | अभिप्राय