अहं नामरो नैव मर्त्यो व दैत्यो
न गन्धर्वरक्षःपिशाचप्रभेदः ।
पुमान् नैव न स्त्री तथा नैव षण्डः
प्रकृष्टप्रकाशस्वरूपः शिवोऽहम् ॥१॥
अहं नैव बालो युवा नैव वृद्धो
न वर्णी न च ब्रह्मचारी गृहस्थः ।
वनस्थोऽहि नाहं न संन्यस्तधर्मा
जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥२॥
अहं नैव मेयस्तिर्भूतमाय-
स्तथैवेक्षितुं मां पृथङ्नास्त्युपायः ।
समाश्लिष्टकायत्रयोऽप्यद्दितीयः
सदाऽतीन्द्रियः सर्वरूपः शिवोऽहम् ॥३॥
अहं नैव मन्ता न गन्ता न वक्ता
न कर्ता न भोक्ता न मुक्ताश्रमस्थः ।
यथाऽहं मनोवृत्तिभेदस्वरूप-
स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् ॥४॥
न मे लोकयात्राप्रवाहप्रवृत्ति
र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः ।
प्रवृत्तिर्निवृत्तिश्च चित्तस्य वृत्तिर
यतस्त्वन्वहं तत्स्वरूपः शिवोऽहम् ॥५॥
यतोऽहं न बुद्धिर्न मे कार्यसिद्धिर
यतो नाहमङ्गं न मे लिङ्गभङ्गः ।
ह्रदाकाशवर्ती गताङ्गत्रयार्तिः
सदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥६॥
निदानं यदज्ञानकार्यस्य कार्यं
विना यस्य सत्त्वं स्वतो नैव भाति ।
यदाद्यन्तमध्यान्तरालान्तराल-
प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥७॥
यदासीद्विलासाद् विकारो जगद्य-
द्दिकाराश्रयो नाद्दितीयत्वतः स्यात् ।
मनोबुद्धिचित्ताहमाकारवृत्ति-
प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि ॥८॥
यदन्तर्बहिर्व्यापकं नित्यशुद्धं
यदेकं सदा सच्चिदानन्दकन्दम्
यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं
यतस्तत्प्रसूतिस्तदेवाहमस्मि ॥९॥
यदर्केन्दुविद्युत्प्रभाजालमाला-
विलासास्पदं यत्स्वभेदादिशून्यम् ।
समस्तं जगद्यस्य पादात्मकं स्याद्
यतः शक्तिभानं तदेवाहमस्मि ॥१०॥
यतः कालमृत्युर्बिभेति प्रकामं
यतश्चित्तबुद्धीन्द्रियाणां विलासः ।
हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम-
प्रकाशो यतः स्यात्तदेवाहमस्मि ॥११॥
यदाकाशवत्सर्वगं शान्तरूपं
परं ज्योतिराकारशून्यं वरेण्यम् ।
यदाद्यन्तशून्यं परं शङ्कराख्यं
यदन्तर्विभाव्यं तदेवाहमस्मि ॥१२॥