विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत्कथितार्थनिधे ।
ह्रदये कलये विमलं चरणं
भव शंकर देशिक मे शरणम् ॥१॥
करुनावरूणालय पालय मां
भवसागरदुःखविदूनह्रदम् ।
रचयाखिलदर्शनतत्त्वविदं
भव शंकर देशिक मे शरणम् ॥२॥
भवता जनता सुहिता भविता
निजबोधविचारणचारुमते ।
कलयेश्वरजीवविवेकविदं
भव भव भवानिति मे नितरां
समजायत चेतसि कौतुकिता ।
मम वारय मोहमहाजलधिं
भव शंकर देशिक मे शरणम् ॥४॥
सुक्रुतेऽधिकृते बहुधा भवतो
भविता पददर्शनलालसता ।
अतिदीनमिमं परिपालय मां
भव शंकर देशिक मे शरणम् ॥५॥
जगतीमवितुं कलिताकृतयो
विचरन्ति महामहसश्छलतः ।
अहिमांशुरिवात्र विभासि पुरो
भव शंकर देशिक मे शरणम् ॥६॥
गुरुपुंगव पुंगवकेतन ते
समतामयतां नहि कोऽपि सुधीः ।
शरणागतवत्सल तत्त्वनिधे
भव शंकर देशिक मे शरणम् ॥७॥
विदिता न मया विशदैककला
न च किंचन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां
भव शंकर देशिक मे शरणम् ॥८॥