मत्प्रियसखि मज्जिव्हे मय्यनुकम्पां कुरुष्व नौमि त्वाम् ।
अन्यापवादरहिता भज सततमों नमः शिवायेति ॥१॥
वाणीगुणानुनिलये त्वां वन्दे मा कुरुष्व परनिन्दाम् ।
त्यज सकललोकवार्तां भज सततर्मो नमः शिवायेति ॥२॥
कट्वम्ललवणतिक्तस्वादुकषायादिसर्वरसवाञ्छाम् ।
जिव्हे विहाय भक्त्या भज सततमों नमः शिवायेति ॥३॥
रसने रचितोयमञ्जलिस्ते परनिन्दापरुषैरलं वचोभिः ।
दुरितापहं नमः शिवायेत्यमुमादिप्रणवं भजस्व मन्त्रम् ॥४॥