उद्धव उवाच ।
चेतनं कुरु कल्याणि जगन्मातर्नमोऽस्तुते । त्वमेव प्राक्तनं सर्वं कृष्णं द्रक्ष्यसि साम्प्रतम् ॥१॥
त्वत्तो विश्वं पवित्रं च त्वत्पादरजसा मही । सुपवित्रं त्वद्वदनं पुण्यवत्यश्च गोपिकाः ॥२॥
लोकास्त्वामेव गायन्ति गीतैर्मङ्गलसंस्तवैः । त्वत्सुकीर्तिं च वेदाश्च सनकाद्याश्च संततम् ॥३॥
कृतपापहरां पुण्यां तीर्थपुजां च निर्मलाम् । हरिभक्तिप्रदां भद्रां सर्वविघ्नविनाशिनीम् ॥४॥
त्वमेव राधा त्वं कृष्णस्त्वं पुमान् प्रकृतिः परा । राधामाधवयोर्भेदो न पुराणे श्रुतौ तथा ॥५ ॥
॥ इति श्रीब्रह्मवैवर्ते पुराणे श्रीकृष्णजन्मखण्डे उद्धवक्रिता श्रीराधा प्रार्थना सम्पूर्णा ॥