{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

राधाषोदशनामवर्णनम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

Content
राधाषोदशनामवर्णनम्

श्रीनारायण उवाच ।

राधा रासेश्वरी रासवासिनी रसिकेश्वरी । कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥१॥

कृष्णवामाङ्गसम्भूता परमान्दरूपिणी । कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥२॥

चन्द्रावली चन्द्रकान्ता शतचन्द्रप्रभानना । नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥३॥

राधेत्येवं च संसिद्धौ राकारो दानवाचकः । स्वयं निर्वाणदात्री या सा राधा परिकीर्तिता ॥४॥

रासेसेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता । रासे च वासो यस्याश्च तेन सा रासवासिनी ॥५॥

सर्वासां रसिकानां च देवीनामीश्वरी परा । प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् ॥६॥

प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः । कृष्णप्राणाधिका सा च कृष्णेन परिकीर्तिता ॥७॥

कृष्णास्यातिप्रिया कान्ता कृष्णो वास्याः प्रियः सदा । सर्वैर्देवगणैरुक्ता तेन कृष्णप्रिया स्मृता ॥८॥

कृष्णरूपं संनिधातुं या शक्ता चावलीलया । सर्वांशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी ॥९॥

वामाङ्गार्धेन कृष्णस्य या सम्भूता परा सती । कृष्णवामाङ्गसम्भूता तेन कृष्णेन कीर्तिता ॥१०॥

परमानन्दराशिश्च स्वयं मूर्तिमती सती । श्रुतिभिः कीर्तिता तेन परमानन्दरूपिणी ॥११॥

कृषिर्मोक्षार्थवचनो न एतोत्कृष्टवाचकः । आकारो दातृवचनस्तेन कृष्णा प्रकीर्तिता ॥१२॥

अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता । वृन्दावनस्याधिदेवी तेन वाथ प्रकीर्तिता ॥१३॥

सङ्घःसखीनां वृन्दः स्यादकारोऽप्यस्तिवाचकः । सखिवृन्दोऽस्ति यस्याश्च सा वृन्दा परिकीर्तिता ॥१४॥

वृन्दावने विनोदश्च सोऽस्या ह्यस्ति च तत्र वै । वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम् ॥१५॥

नखचन्द्रावली वक्त्रचन्द्रोऽस्ति यत्र संततम् । तेन चन्द्रवली सा च कृष्णेन परिकीर्तिता ॥१६॥

कान्तिरस्ति चन्द्रतुल्या सदा यस्या दिवानिशम् । सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्तिता ॥१७॥

शरच्चन्द्रप्रभा यस्स्याश्चाननेऽस्ति दिवानिशम् । मुनिना कीर्तीता तेन शरच्चन्द्रप्रभानना ॥१८॥

इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम् । नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे॥ ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे ॥१९॥

धर्मेण कृपया दत्तं मह्यमादित्यपर्वणि । पुष्करे च महातीर्थे पुण्याहे देवसंसदि॥ राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ॥२०॥

इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने । निन्दकायावैष्णवाय न दातव्यं महामुने ॥२१॥

यावज्जीवमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः । राधामाधवयोः पादपद्मे भक्तिर्भवेदिह ॥२२॥

अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत् । अणिमादिकसिधिं च सम्प्राप्य नित्यविग्रहम् ॥२३॥

व्रतदानोपवाऐश्च सर्वैर्नियमपूर्वकैः । चतुर्णां चैव वेदानां पाठैः सर्वार्थसंयुतैः ॥२४॥

सर्वेषां यज्ञतीर्थानां करणैर्विधिवोधितः । प्रदक्षिणेन भुमेश्च कृत्स्नाया एव सप्तधा ॥२५॥

शरणागतरक्षायामज्ञानां ज्ञानदानतः । देवानां वैष्णवानां च दर्शनेनापि यत् फलम् ॥२६॥

तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम् । स्तोत्रस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः ॥२७॥

इति श्रीब्रह्मवैवर्ते श्रीनारायणकृतं राधाषोडशनाम वर्णनम् ।

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-04-15T04:44:52.4080720-04:00
|-|-|
Comments | अभिप्राय