{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

ब्रह्मणकृतं श्रीराधास्तोत्रम्




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

Content
ब्रह्मणकृतं श्रीराधास्तोत्रम्

ब्रह्मोवाच ।

हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥१॥

सुदुर्लभं च सर्वेषां भारते च विशेषतः । षष्टिवर्षसहस्त्राणि तपस्तप्तं पुरा मया ॥२॥

भास्करे पुष्करे तिर्थे कृष्णस्य परमात्मनः । आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥३॥

वरंवृणीष्वेत्युक्ते च स्वाभिष्टं च वृतं मुदा । राधिकाचरणाम्होजं सर्वेषामपि दुर्लभम् ॥४॥

हे गुणातित मे स्न्हीघ्रमधुनैव प्रदर्शय । मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥५॥

दर्शायिष्याम्मि काले च वत्सेदानीं क्समेति च । न हीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥६॥

सर्वेषां वाञ्चितं मातर्गोलोके भारतेऽधुना । सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका ध्रुवम् ॥७॥

त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः । श्रीकृष्णस्त्वमयं राधा वा हरीः स्वयम् ॥८॥

न हि वेदेषु मे दृष्ट इति केन निरूपितम् । ब्रह्माण्डाद् बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥९॥

वैकुण्ठशचाप्यजन्यश्च त्वमजन्या तथाम्बिके । यथा समस्तब्रह्माण्डे श्रीकृष्णांशांश जीविनः ॥१०॥

तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता । पुरुषाश्च हरेरंशास्वदंशा निखिलाः स्त्रियः ॥११॥

आत्मनो देहरूपा त्वमस्याधारस्वमेव हि । अस्या नु प्राणैस्त्वं मातस्वत्प्राणैरयमीश्वरः ॥१२॥

किमहो निर्मितः केन हेतुना शिल्पकारिणा । नित्योऽयं च यथा कृष्णस्त्वं च नित्या तथाम्बिके ॥१३॥

अस्यांशा त्वं त्वदंशो वाप्ययं केन निरूपितः । अहं विधाता जगतां वेदानां जनकः स्वयम् ॥१४॥

तं पठित्वा गुरुमुखाद् भवन्त्येव बुधा जनाः । गुणानां वा स्तवानां ते शतांशं वक्तुमक्षमः ॥१५॥

वेदो वा पण्दितो वान्यः को वा त्वां स्तोतुमीश्वरः । स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥१६॥

त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः । यद्वस्तु दृष्टं सर्वेषां तद्विवक्तुं बुधः क्समः ॥१७॥

यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः । अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥१८॥

सरस्वती च वेदाश्च क्समः कः स्तोतुमीश्वरि । यथागमं यथोक्तं च न मां निन्दितुमर्हसि ॥१९॥

ईस्वराणामीस्वरस्य योग्यायोग्ये समा कृपा जनस्य । प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥२०॥

जननी जनको यो वा सर्वं क्समति स्नेहतः । इत्युक्त्वा जगतां धाताअ तथौ च पुरतस्तयोः ॥२१॥

प्रणम्य चरणाम्भोजं सर्वेसःआं वन्द्यमीप्सितम् । ब्रह्मणा च कृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः । राधामाधवयोः पादे भक्तिं दास्यं लभेद् ध्रुवम् ॥२२॥

कर्मनिर्मूलनं कृत्वा मृत्युं जित्वा सुदुर्जयम् । विलङ्घ्य सर्वलोकाश्च याति गोलोकमुत्तमम् ॥२३॥

॥ इति श्रीब्रह्मवैवर्ते ब्रह्मण कृतं श्रीराधास्तोत्रं सम्पुर्णं॥

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-04-15T04:46:29.3574784-04:00
|-|-|
Comments | अभिप्राय