{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

ब्रह्मेशशेषादिकृतं श्रीराधास्तोत्रं




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

Content
ब्रह्मेशशेषादिकृतं श्रीराधास्तोत्रं

॥ अथ ब्रह्मेशशेषादिकृतम् श्रीराधास्तोत्रम् ॥

षष्टिवर्षसहस्राणि दिव्यानि परमेश्वरि । पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते ॥१॥

त्वत्पादपद्ममधुरमधुलुब्धेन चेतसा । मधुव्रतेन लोभेन प्रेरितेन मया सति ॥२॥

तथापि न मया लब्धं त्वद्पादपदमीप्सितम् । न दृष्टमपि स्वप्नेऽपि जाता वागशरीरिणी ॥३॥

वाराहे भारते वर्षे पुण्ये वृन्दावने वने । सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि ॥४॥

राधामाधवयोर्दास्यं कुतो विषयिणस्तव । निवर्तस्व महाभाग परमेतत् सुदुर्लभम् ॥५॥

इति श्रुत्वा निवृत्तोऽहं कुतो विषयिणस्तव । निवर्तस्व महाभाग परमेतत् सुदुर्लभम् ॥६॥

श्रीमहादेव उवाच । पद्मैः पद्मार्चितं पादपद्मं यस्य सुदुर्लभम् । ध्यायन्ते ध्याननिष्टाश्च शश्वद् ब्रह्मादयः सुराः ॥७॥

मुनयो मनवश्चैव सिद्धाः सन्तश्च योगिनः । द्रष्टुं नैव क्षमाः स्वप्ने भवती तस्य वक्षसि ॥८॥

अनत उवाच । वेदाश्च वेदमाता च पुराणानि च सुव्रते । अहं सरस्वती सन्तः स्तोतुं नालं च सन्ततम् ॥९॥

अस्माकं स्तवने यस्य भ्रभङ्गश्च सुदुर्लभभः । तवैव भर्त्सने भीतश्चावयोरन्तरं हरिः ॥१०॥

॥ इति श्रीब्रह्मवैवर्ते ब्रह्मेशशेषादिकृतं श्रीराधास्तोत्रं सम्पूर्णम् ॥

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-04-15T04:48:25.4544176-04:00
|-|-|
Comments | अभिप्राय