{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

देवी स्तोत्र - देवकृत लक्ष्मी स्तोत्रम्




देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याणकारी तसेच दुष्टांचा संहार करणारीही आहे.

The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.

Content
देवकृत लक्ष्मी स्तोत्रम्

क्षमस्व भगवंत्यव क्षमाशीले परात्परे । शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥

उपमे सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥

सर्वसंपत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी । रासेश्वर्यधि देवी त्वं त्वत्कलाः सर्वयोषितः ॥

कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका । स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥

वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती । गंगा च तुलसी त्वं च सावित्री ब्रह्मालोकतः ॥

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् । रासे रासेश्वरी त्वं च वृंदावन वने- वने ॥

कृष्णा प्रिया त्वं भांडीरे चंद्रा चंदनकानने । विरजा चंपकवने शतशृंगे च सुंदरी ॥

पद्मावती पद्मवने मालती मालतीवने । कुंददंती कुंदवने सुशीला केतकीवने ॥

कदंबमाला त्वं देवी कदंबकाननेऽपि च । राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ॥

इत्युक्त्वा देवताः सर्वा मुनयो मनवस्तथा । रूरूदुर्नम्रवदनाः शुष्ककंठोष्ठ तालुकाः ॥

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् । यः पठेत्प्रातरूत्थाय स वै सर्वै लभेद् ध्रुवम् ॥

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् । सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम् ॥

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् । अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ।

परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनम् । भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥

हतबंधुर्लभेद्बंधुं धनभ्रष्टो धनं लभेत् । कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद् ध्रुवम् ॥

सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् । हर्षानंदकरं शश्वद्धर्म मोक्षसुहृत्प्रदम् ॥॥

इति श्रीदेवकृत लक्ष्मीस्तोत्रं संपूर्णम् ॥

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-04-10T21:44:33.6881680-04:00
|-|-|
Comments | अभिप्राय