{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

देवी स्तोत्र - अर्धनारीश्वराष्टकम्




देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याणकारी तसेच दुष्टांचा संहार.करणारीही आहे.

The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.

Content
अर्धनारीश्वराष्टकम्

अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।

निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ।१।

प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।

शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय ।२।

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धरायै ।

दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ।३।

कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय ।

कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ।४।

पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय ।

कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय ।५।

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।

समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ।६।

प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय ।

जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ।७।

अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्षु ।

सर्वं गतायै सकलं गताय नमः शिवायै च नमः शिवाय ।८।

अर्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् ।

यः पठेच्छृणुयाद्वापि शिवलोके महीयते ।९॥

इति उपमन्युकृतं अर्धनारीश्वराष्टकम् ।

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-04-11T03:15:52.4323984-04:00
|-|-|
Comments | अभिप्राय