{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

देवी स्तोत्र - कीलकस्तोत्रम्




देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.

The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.

Content
कीलकस्तोत्रम्

ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ।

ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥१॥

सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् । सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः॥२॥

सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि । एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः॥३॥

न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते । विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम्॥४॥

समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः । कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥५॥

स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः । समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम्॥६॥

सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः । कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः॥७॥

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति । इत्थं रूपेण कीलेन महादेवेन कीलितम्॥८॥

यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः । स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम्॥९॥

न चैवापाटवं तस्य भयं क्वापि न जायते । नापमृत्युवशं याति मृते च मोक्षमाप्नुयात्॥१०॥

ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति । ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः॥११॥

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने । तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम्॥१२॥

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः । भवत्येव समग्रापि ततः प्रारभ्यमेव तत्॥१३॥

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च । शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः॥१४॥

चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः । हृद्यं काममवाप्नोति हृदि देवी सदा वसेत्॥१५॥

अग्रतोऽमुं महादेवकृतं कीलकवारणम् । निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः॥१६॥॥

इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम्॥

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-04-11T05:10:44.3590496-04:00
|-|-|
Comments | अभिप्राय