{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

देवी स्तोत्र - गायत्र्यष्टकम्




देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.

The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.

Content
गायत्र्यष्टकम्

शंकराचार्यविरचितम्॥

विश्वामित्रपःफलां प्रियतरां विप्रालिसंसेवितां नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् ।

ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम्॥१॥

जातीपङ्कजकेतकीकुवलयैः संपूजिताङ्घ्रिद्वयां तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् ।

प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम्॥२॥

मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् ।

जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम्॥३॥

काञ्चीचेलविभूषितां शिवमयीं मालार्धमालादिकान् बिभ्राणां परमेश्वरीं शरणदां मोहान्धबुद्धिच्छिदाम् ।

भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम्॥४॥

ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां सायंकालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् ।

मातुर्दास्यविलोचनैकमतिमत्खेटीन्द्रसंराजितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम्॥५॥

संध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां ताराहीरसुमालिकां सुविलसद्रत्नेन्दुकुम्भान्तराम् ।

राकाचन्द्रमुखीं रमापतिनुतां शङ्खादिभास्वत्करां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम्॥६॥

वेणीभूशितमालकध्वनिकरैर्भृङ्गैः सदा शोभितां तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् ।

नासालंकृतमौक्तिकेन्दुकिरणैः सायंतमश्छेदिनीं गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम्॥७॥

पादाब्जान्तररेणुकुङ्कुमलसत्फालद्युरामावृतां रम्भानाट्यविलोकनैकरसिकां वेदान्तबुद्धिप्रदाम् ।

वीणावेणुमृदङ्गकाहलरवान् देवैः कृताञ्छृण्वतीं गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम्॥८॥

हत्यापानसुवर्णतस्करमहागुर्वङ्गनासंगमान् दोषाञ्छैलसमान् पुरंदरसमाः संच्छिद्य सूर्योपमाः ।

गायत्रीं श्रुतिमातुरेकमनसा संध्यासु ये भूसुरा जप्त्वा यान्ति परां गतिं मनुमिमं देव्याः परं वैदिकाः॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्यविरचितं गायत्र्यष्टकं संपूर्णम्

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-04-11T05:12:16.9321632-04:00
|-|-|
Comments | अभिप्राय