{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

गणपतिस्तवः ।




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
गणपतिस्तवः ।

श्रीगणेशाय नमः ॥ ऋषिरुवाच ॥

अजं निर्विकल्पं निराहारमेकं निरानन्दमानंदमद्वैतपूर्णम् ॥

परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम् ॥१॥

गुणातीतमानं चिदानंदरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ॥

मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेश भजेम् ॥२॥

जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गुणेशं गणेशम् ॥

जगद्व्यापिनं विश्ववंद्यं सुरेशं परब्रह्मरूपं गणेशं भजेम् ॥३॥

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं ह्रदाऽचिंत्यरूपम् ॥

जगत्कारणं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नताः स्मः ॥४॥

सदा सत्ययोग्यं मुदा क्रीडमानं सुरारी न्हरंतं जगत्पालयंतम् ॥

अनेकावतारं निजज्ञानहारं सदा विश्वरूपं गणेशं नमामः ॥५॥

तपोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ॥

अनेकागमैः स्वं जनं बोधयंतं सदा सर्वरूपं गणेशं नमामः ॥६॥

नमः स्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् ॥

मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥७॥

निजैरोषधीस्तर्पयंतं कराद्यैः सुरौघान्कलाभिः सुधास्त्राविणीभिः ॥

दिनेशांशुसंतापहारं द्विजेशं शशांकस्वरूप गणेशं नमामः ॥८॥

अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥९॥

प्रधानस्वरूपं महत्तत्वरूपं धराचारिरूपं दिगीशादिरूपम् ॥

असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्वरूपं गणेशं नताः स्मः ॥१०॥

त्वदीये मनः स्थापयेदंघ्रियुग्मे स नो विघ्नसंघातपीडां लभेत ॥

लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वांतपीडा कथं वा लभेत ॥११॥

वयं भ्रामिताः सर्थथाऽज्ञानयोगादलब्धास्तवांघ्रि बहून्वर्षपूगान् ॥

इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥१२॥

एवं स्तुतो गणेशस्तु संतुष्टोऽभून्महामुने ॥

कृपया परयोपेतोऽभिधातुमुपचक्रमे ॥१३॥

इति श्रीमद्‌गर्गमहर्षिप्रणीतो गणपतिस्तवः सम्पूर्णः ।

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-02-28T02:19:08.3294960-05:00
|-|-|
Comments | अभिप्राय