{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

शंकराचार्य कृतगुर्वष्टकम्




गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.

A Guru is a teacher in Hinduism

Content
शंकराचार्य कृतगुर्वष्टकम्

श्रीगणेशाय नमः ॥

शरीरं सुरूपं तथा वा कलत्रं यशश्‍चारु चित्रं धनं मेरुतुल्यम् ।

मनश्‍चेन्न लग्नं हरेरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥

कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बांधवाः सर्वमेतद्धि जातम् ।

गुरोरंघ्रिपद्मे मनश्‍चेन्न लग्नं ततः किं० ॥ २ ॥

षडंगादिदेवो मुखे शास्‍त्रविद्या कवित्वादि गद्यं सुपद्यं करोति । गुरोरंघ्रिपद्मे० ॥ ३ ॥

विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः । गुरोरंघ्रिपद्मे ॥ ४ ॥

क्षमामंडले भूपभूपालवृन्दैः सदा सेवितं यस्य पादारविंदम् । गुरोरंघ्रिपद्मे० ॥ ५ ॥

यशो मे गतं दिक्षु दानप्रतापाज्जगद्वस्तु सर्वं करे यत्प्रसादात् । गुरोरंघ्रिपद्मे० ॥ ६ ॥

न भोगे न योगे न वा वाजिराजौ न कांतामुखे नैव विषेशु चित्तम् । गुरोरंघ्रिपद्मे० ॥ ७ ॥

अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये । गुरोरंघ्रिपद्मे० ॥ ८ ॥

अनर्घ्याणि रत्‍नानि मुक्‍तानि सम्यक्समालिंगिता कामिनी यामिनीषु । गुरोरंघ्रिपद्मे० ॥९॥

गुरोरष्टकं यः पठेत्पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही ।

लभेद्वांछितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्‍तवाक्ये मनो यस्य लग्नम् ॥ १० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं गुरोरष्टकं समाप्तम् ।

Translation - भाषांतर

N/A
Details
N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2007-06-21T21:59:26.0000000Z
|-|-|
Comments | अभिप्राय