{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

दशावतारस्तोत्रम्




गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.

A Guru is a teacher in Hinduism

Content
दशावतारस्तोत्रम्

श्रीगणेशाय नमः ॥

चलल्लोलकल्लोलकल्लोलिनीशस्फुरन्नक्रचक्रातिवक्रांबुलीनः ।

हतो येन मीनावतारेण शंखः स पायादपायाज्जगद्वासुदेवः ॥ १ ॥

धरानिर्जरारातिभारादपारादकूपारनीरातुराधः पतंती ।

धृता कूर्मरुपेण पृष्ठोपरिष्टे स देवो मुदे वोऽस्तु शेषाङ्गशायी ॥ २ ॥

उदग्रे रदाग्रे सगोत्रापि गोत्रा स्थिता तस्थुषः केतकाग्रे षडंघ्रेः ।

तनोति श्रियं सश्रियं नस्तनोतु प्रभुः श्रीवराहावतारो मुरारिः ॥ ३ ॥

उरोदार आरंभसंरंभिणोऽसौ रमासंभ्रमाभंगुराग्रैर्नखाग्रः ।

स्वभक्तातिभक्त्याऽभिव्यक्तेन दारुण्यघौघं सदा वः स हिंस्यान्नृसिंहः ॥ ४ ॥

छलादाकलय्य त्रिलोकीं बलीयान् बलिं सम्बबन्ध त्रिलोकीबलीयः ।

तनुत्वं दधानां तनुं संदधानो विमोहं मनो वामनो वः स कुर्यात् ॥ ५ ॥

हतक्षत्रियासृक्‌प्रपानप्रमत्तप्रनृत्यत्पिशाचप्रगीतप्रतापः ।

धराकारि येनाग्रजन्माग्रहारं विहारं क्रियान्मानसे वः स रामः ॥ ६ ॥

नतग्रीवसुग्रिवसाम्राज्यहेतुर्दशग्रीवसन्तानसंहारकेतुः ।

धनुर्येन भग्नं महत्कामहंतुः स मे जानकीजानिरेनांसि हन्तु ॥ ७ ॥

घनाद् गोधनं येन गोवर्धनेन व्यरक्षि प्रतापेन गोवर्धनेन ।

हतारातिचक्री रणध्वस्तचक्री पदध्वस्तचक्री स नः पातु चक्री ॥ ८ ॥

धराबद्धपद्मासनस्थांघ्रियष्टिर्नियम्यानिलं न्यस्तनासाग्रदृष्टिः ।

य आस्ते कलौ योगिनां चक्रवर्ती स बुद्धः प्रबुद्धोऽस्तु निचिंतवर्तीश ॥ ९ ॥

दुरापारसंसारसंहारकारी भवत्यश्ववारः कृपाणप्रहारी ।

मुरारिर्दशाकारधारीहकल्की करोतु द्विषां ध्वंसनं वः स कल्की ॥ १० ॥

इति श्रीमच्छंकराचार्यविरचितं दशावतारस्तोत्रं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2007-06-21T22:06:51.0000000Z
|-|-|
Comments | अभिप्राय