{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

आर्तत्राणनारायणाष्टादशकम्च्द




गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.

A Guru is a teacher in Hinduism

Content
आर्तत्राणनारायणाष्टादशकम्च्द

श्रीगणेशाय नमः ॥ प्रह्लाद प्रभृरस्ति चेत्तव हरिः सर्वत्र मे दर्शय स्तंभे चैनमिति ब्रुवंतमसुरं तत्राविरासीद्धरिः ।

वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदयन्नार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १ ॥

श्रीरामाव विभीषणोऽयमधुना त्वार्तो भयादागतः सुग्रीवानय पालयेनमधुना पौलस्त्यमेवागतम् ।

एवं योऽभयमस्य सर्वविदितं लंकाधिपत्यंददावार्तत्राणपरायणः ॥ २ ॥

नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां पाहीति प्रचुरार्तरावकरिणं देवेश शक्‍तीश च ।

मा शोचेति ररक्ष नक्रवदनाच्चक्रश्रिया तत्क्षणादार्तत्रा० ॥ ३ ॥

हा कृष्णाच्युत हा कृपाजलनिधे हा पांडवानां सखे क्वासि क्वासि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् ।

इत्युक्‍तोऽक्षयवस्त्ररक्षिततनुं योऽरक्षदापद्‌गणादार्त० ॥ ४ ॥

यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं यन्नामामृतपूरणं च पिबतां संतापसंहारकम् ।

पाषाणश्‍च यदंघ्रितो निजवधूरूपं मुनेराप्तवानार्तत्रा० ॥ ५ ॥

यन्नामश्रुतिमात्रतोऽपरिमितं संसारवारांनिधिं त्यक्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्‍वतम् ।

तन्नैवाद्‌भुतकारणं त्रिजगतां नाथस्य दासोऽस्म्यहं ह्यार्त० ॥ ६ ॥

पित्रा भ्रातरमुत्तमांकगमितं भक्तोत्तमं यो ध्रुवं दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्राऽवमानं गतम् ।

योऽदात्तं शरणागतं तु तपसा हेमाद्रिसिंहासनं ह्यार्त० ॥ ७ ॥

नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः ।

भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्‌गतिर्ह्या० ॥ ८ ॥

क्षुत्तुष्णार्तसहस्त्रशिष्यसहितं दुर्वाससं क्षोभितं द्रौपद्याभयभक्तियुक्तमनसा शाकं स्वहस्तार्पितम् ।

भुक्त्वाऽतर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमानार्त० ॥ ९ ॥

येनारक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुजस्त्वायातं शरणं रघूत्तम विभो रक्षातुरं मामिति ।

पौलस्त्येन निराकृतोऽथ सदसि भ्रात्रा च लंकापुरे ह्यार्त० ॥ १० ॥

येनावाहि महाहवे वसुमती संवर्तकाले महालीलाक्रोडवपुर्धरेण हरिणा नारायणेन् स्वयम् ।

यः पापिद्रुमसंप्रवर्तमचिराद्धत्त्वा च योऽगात् प्रियामार्त० ॥ ११ ॥

योद्धाऽसौ भुवनत्रये मधुपतिर्भर्ता नराणां बले राधाया अकरोद्रते रतिमनःपूर्तिः सुरेन्द्रानुजः ।

यो वा रक्षति दीनपांडुतनयान्नाथेति भीतिं गतानार्त० ॥ १२ ॥

यः सांदीपिनदेशतश्च तनयं लोकान्तरात्सन्नतं चानीय प्रतिपाद्य पुत्रमरणदुज्जृंभमाणार्तये ।

संतोषं जनयन्नमेयमहिमा पुत्रार्थसंपादनादार्तत्राणपरायणः ॥ १३ ॥

यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः प्राणान्मुक्तिमशेषितामनु च यः पापौघदावातियुक् ।

सद्यो भागवतोत्तमात्मनि मतिं प्रापांबरीषाभिधश्चार्तत्रा० ॥ १४ ॥

योऽरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं दीनादीनचकोरपालनपरः श्रीशंखचक्रोज्ज्वलः ।

तज्जीर्णाबरमुष्टिपात्रपृथुकानादाय भुक्त्वा क्षणादार्त० ॥ १५ ॥

यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते यत्संशेतिपतिप्रतिष्ठितमिदं विश्वं वदत्यागमः ।

यो योगीन्द्रमनः सरोरुहतमःप्रध्वंसविद्भानुमानार्त० ॥ १६ ॥

कालिंदीह्रदयाभिरामपुलिने पुण्ये जगन्मंगले चंद्रांभोजवटे पुटे परिसरे धात्रा समाराधिते ।

श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमानार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १७ ॥

वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणादौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् सेव्यः

श्रीपतिरेव सर्वजगतामेते हि तत्साक्षिणः प्रह्लादश्‍च विभीषणश्‍च करिराट् पांचाल्यहल्या ध्रुवः ॥ १८ ॥

इति श्रीमच्छंकराचार्यविरचितमार्तत्राणपरायणनारायष्टादशकं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2007-06-21T22:10:47.0000000Z
|-|-|
Comments | अभिप्राय