{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

पञ्चमहायुधस्तोत्रम्




गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.

A Guru is a teacher in Hinduism

Content
पञ्चमहायुधस्तोत्रम्

श्रीः ॥ विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहंता । तं पांचजन्यं शशिकोटिशुभ्रं शंखं सदाऽहं शरणं प्रपद्ये ॥ १ ॥

स्फुरत्सहस्त्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् । सुरद्विषां प्राणविनशदक्षं चक्रं सदाऽहं शरणं प्रपद्ये ॥ २ ॥

हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलस्य हंत्रीम् । वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥

रक्षोऽसुराणां कठिनोग्रकंठच्छेदोच्छलच्छोणितदिग्धधारम् । तं नंदकं नाम हरेः प्रदीप्तं खङ्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥

यस्यातिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः । भवंति दैत्याशनिबाणवर्षं शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥

प्रातर्हरैः पञ्चमहायुधानां स्वयं पठेद्यः कृतसर्वरक्षः । जीवेच्छतं सर्वजनैः स पूज्यो निर्वाणकाले विशतीह विष्णुम् ॥ ६ ॥

इति श्रीमच्छंकरा० पंचमहायुधस्तोत्रम् समाप्तम् ।

Translation - भाषांतर

N/A
Details
N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2007-06-21T22:11:59.0000000Z
|-|-|
Comments | अभिप्राय