{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

त्रैलोक्यमंगलकवचम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
त्रैलोक्यमंगलकवचम्

कुञ्चिताधरपुटेन पूरयन् वंशिकाप्रचलदंगुलीततिः ।

मोहयन्सुरभिवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥

गणेशाय नमः । नारद उवाच ।

भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् ।

त्रैलोक्यमंगलं नाम कृपया कथय प्रभो ॥ १ ॥

सनत्कुमार उवाच ।

श्रृणु वक्ष्यामि विपेन्द्र कवचं परमाद्‌भुतम् ।

नारायणेन कथितं कृपया ब्रह्मणे पुरा ॥ २ ॥

ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि वै ।

अतिगुह्यतरं तत्त्वं ब्रह्ममंत्रौघविग्रहम् ॥ ३ ॥

यद्धृत्वा पठनाद्‌ब्रह्मा सृष्टिं वितनुते ध्रुवम् ।

यद्धृत्वा पठनात्पाति महालक्ष्मीर्जगत्रयम् ॥ ४ ॥

पठनाद्धारणाच्छंभुः संहर्ता सर्वमंत्रवित् ।

त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ॥ ५ ॥

वरदृप्तान् जघानैव पठनाद्धारणाद्यतः ।

एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥ ६ ॥

इदं कवचमत्यंतगुप्तं कुत्रापि नो वदेत् ।

शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ७ ॥

शठाय परशिष्याय दत्त्वा मृत्युमवप्नुयात् ।

त्रैलोक्यमंगस्यास्य कवचस्य प्रजापतिः ॥ ८ ॥

ऋषिश्छंदश्च गायत्री देवो नारायणः स्वयम् ।

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ९ ॥

प्रणवो मे शिरः पातु नमो नारायणाय च ।

भालं मे नेत्रयुगलमष्टार्णो भुक्तिमुक्तिदः ॥ १० ॥

क्लीं पायाच्छ्रत्रियुग्मं चैकाक्षरः सर्वमोहनः ।

क्लीं कृष्णाय सदा घ्राणं गोविंदायेति जिह्विकाम् ॥ ११ ॥

गोपीजनपदवल्लभाय स्वाहाननं मम ।

अष्टादशाक्षरो मंत्रः कण्ठं पातु दशाक्षरः ॥ १२ ॥

गोपीजनपदवल्लभाय स्वाहा भुजद्वयम् ।

क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः स्कंधौ दशाक्षरः ॥ १३ ॥

क्लीं कृष्णः क्लीं करौ पायात् क्लीं कृष्णो मां गतोऽवतु ।

ह्रदयं भुवनेशानः क्लीं कृष्णः क्लीं स्तनौ मम ॥ १४ ॥

गोपालायाग्निजायान्तं कुक्षियुग्मं सदाऽवतु ।

क्लीं कृष्णाय सदा पातु पार्श्वयुग्ममनुत्तमः ॥ १५ ॥

कृष्णगोविंदकौ पातां स्मराद्यौ डेयुतौ मनुः ।

अष्टाक्षरः पातु नाभिं कृष्णेति द्वयक्षरोऽवतु ॥ १६ ॥

पृष्ठं क्लीं कृष्णकं गल्लं क्लीं कृष्णाय द्विठान्तकः ।

सक्थिनी सततं पातु श्रीं ह्रीं क्लीं कृष्णठद्वयम् ॥ १७ ॥

ऊरू सप्ताक्षरः पायात्रयोदशाक्षरोऽवतु ।

श्री ह्रीं क्लीं पदतो गोपीजनवल्लभपदं ततः ॥ १८ ॥

भाय स्वाहेति पायुं वै क्लीं ह्रीं श्रीं स दशार्णकः ।

जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ॥ १९ ॥

त्रयोदशाक्षरः पातु ज्म्घे चक्राद्युदायुधः ।

अष्टादशाक्षरः ह्रीं श्रीं पूर्वको विंशदर्णकः ॥ २० ॥

सर्वांगं मे सदा पातु द्वारकानायको बली ।

नमो भगवते पश्‍चाद्वासुदेवाय तत्परम् ॥ २१ ॥

ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु ।

श्रीं ह्रीं क्लीं च दशार्णस्तु ह्रीं क्लीं श्रीं षोडशार्णकः ॥ २२ ॥

गदाद्युदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु ।

ह्रीं श्रीं दशाक्षरो मंत्रो दक्षिणे मां सदाऽवतु ॥ २३ ॥

तारो नमो भगवते रुक्मिणीवल्लभाय च ।

स्वाहेति षोडशार्णोऽयं नैऋत्यां दिशि रक्षतु ॥ २४ ॥

क्लीं ह्रषीकेशाय पदं नमो मां वारुणेऽवतु ।

अष्तादशार्णः कामान्तो वायव्ये मां सदाऽवतु ॥ २५ ॥

श्रीं मायाकामकृष्णाय गोविंदाय द्विठो मनुः ॥

द्वादशार्णात्मको विष्णुरुत्तरे मां सदाऽवतु ॥ २६ ॥

वाग्भयं कामकृष्णायं ह्रीं गोविंदाय तत्परम् ।

श्रीं गोपीजनवल्लभान्ताय स्वाहा करौ ततः ॥ २७ ॥

द्वाविंशत्यक्षरो मंत्रो मामैशान्ये सदाऽवतु ।

कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ॥ २८ ॥

नमामि देवकीपुत्रं नृत्यराजानमच्युतम् ।

द्वात्रिंशदक्षरो मंत्रोऽप्यधो मां सर्वदाऽवतु ॥ २९ ॥

कामदेवाय विद्महे पुष्पबाणाय धीमहि ।

तन्नोऽनङ्गः प्रचोदयादेषां मां पातु चोर्ध्वतः ॥ ३० ॥

इति ते कथितं विप्र ब्रह्म मंत्रौघविग्रहम् ।

त्रैलोक्यमंगलं नाम कवचं ब्रह्मरूपकम् ॥ ३१ ॥

ब्रह्मणा कथितं पूर्वं नारायणमुखाच्छ्रतम् ।

तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ ३२ ॥

गुरुं प्रणम्य विधिवत्कवचं प्रपठेत्ततः ।

सकृद् द्विस्त्रिर्यथाज्ञानं स हि सर्वतपोमयः ॥ ३३ ॥

मंत्रेषु सकलेष्वेव देशिको नात्र संशयः ।

शतमष्टोत्तरं चास्य पुरश्चर्यविधिः स्मृतः ॥ ३४ ॥

हवनादिन्दशांशेन कृत्वा तत्साधयेद् ध्रुवम् ।

यदि स्यात्सिद्धकवचो विष्णुरेव भवेत्स्वयम् ॥ ३५ ॥

मंत्रसिद्धिर्भवेत्तस्य पुरुश्चर्याविधानतः ।

स्पर्धामुद्‌धूय सततं लक्ष्मीर्वाणी वसेत्ततः ॥ ३६ ॥

पुष्पांजल्यष्टकं दत्त्वा मूलेनैव पठेत्सकृत् ।

दशवर्षसहस्त्राणी पूजायाः फलमाप्नुयात् ॥ ३७ ॥

भूर्जे विलिख्यांगुलिकां स्वर्णस्थां धारयेद्यदि ।

कंठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ ३८ ॥

अश्वमेधसहस्त्राणि वाजपेयशतानि च ।

महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥ ३९ ॥

कलां नार्हन्ति तान्येव सकृदुच्चारणात्ततः ।

कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥ ४० ॥

त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।

इदं कवचमज्ञात्व यजेद्यः पुरुशोत्तमम् ।

शतलक्षं प्रजप्तोऽपि न मंत्रस्तस्य सिध्यति ॥ ४१ ॥

इति श्रीनारदपंचरात्रे ज्ञानामृतसारे त्रैलोक्यमंगलकवचं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:09:01.0000000Z
|-|-|
Comments | अभिप्राय