{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्रीबालरक्षा




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
श्रीबालरक्षा

श्रीगणेशाय नमः । श्रीकृष्णाय नमः ।

अव्यादजोङघ्रिंमणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।

ह्रत्केशवस्त्वदुर ईश इनस्तु कंठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ १ ॥

चक्रयग्रतः सहगदो हरिरस्तु पश्‍चात्त्वत्पार्श्वयोर्धनुरसौ मधुहाजनश्‍च ।

कोणेषु शंख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समंतात् ॥ २ ॥

इन्द्रियाणि ह्रषीकेशः प्राणान्नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ ३ ॥

पृश्निगर्भश्च ते बुद्धिमात्मानं भगवान्परः । क्रीडंतं पातु गोविंदः शयानं पातु माधवः ॥ ४ ॥

व्रजंतमव्याद्वैकुंठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयंकरः ॥ ५ ॥

डाकिन्यो यातुधान्यश्च कूष्मांडायेऽर्भकग्रहाः । भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ ६ ॥

कोटरारेवतीज्येष्ठापूतनामातृकादयः । उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ ७ ॥

स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये । सर्वे नश्यंतु ते विष्णोर्नमग्रहणभीरवः ॥ ८ ॥

इति श्रीमद्‌भागवते दशमस्कंधे गोपीकृतबालरक्षा संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:09:40.0000000Z
|-|-|
Comments | अभिप्राय