{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

भगवन्मानसपूजा




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
भगवन्मानसपूजा

श्रीगणेशाय नमः ।

ह्रदंभोजे कृष्णः सजलजलदश्यामलतनुः सरोजाक्षः स्त्रग्वी मुकुटकटकाद्याभरणवान् ।

शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन्ध्येयो गोपीगणपरिवृतः कुङकुमचितः ॥ १ ॥

पयोम्भोधेर्द्वीपान्मम ह्रदयमायाहि भगवन्मणिवातभ्राजत्कनकवरपीठं भज हरे ।

सूचिह्नौ ते पादौयदुकुलजनेनेज्मि सुजलैर्गृहाणेदं दूर्वाफलजलवदर्घ्यं मुररिपो ॥ २ ॥

त्वमाचामोपेन्द्र त्रिदशसरिदंभोऽतिशिशिरं भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् ।

द्युनद्याः कालिंद्या अपि कनककुंभस्थितमिदं जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥

तडिद्वर्णे वस्त्रे भज विजयकांताधिहरण प्रलंबारिभ्रातर्मृदुलमुपवीतं कुरु गले ।

ललाटे पाटीरं मृगमदयुतं धारय हरे गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥

दशाङ्गं धूपं सद्वरदचरणाग्रेऽर्पितमये मुखं दीपेनेन्दुप्रभवरजसा देव कलये ।

इमौ पाणी वाणीपतिनुत सुकर्पूररजसा विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥

सदा तृप्तान्न षड्रसवदखिलव्यंजनयुतं सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।

यशोदासूनो तत्परमदययाऽशान सखिभिः प्रसादं वांछद्भिः सह तदनुनीरं पिब विभो ॥ ६ ॥

सचन्द्रं तांबूलं मुखरुचिकर भक्षय हरे फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।

सपर्या पर्याप्त्यै कनकमणिजातं स्थितमिदं प्रदीपैरारातिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥

विजातीयैः पुष्पैरभिसुरभिभिर्बिल्वतुलसीयुतैश्चेमं पुष्पांजलिमजित ते मूर्ध्नि निदधे ।

तव प्रादक्षिण्यक्रमणमघविध्वंसिरचितं चतुर्वारं विष्णो जनिपथगतिश्रान्तविदुषा ॥ ८ ॥

नमस्कारोऽष्टाङ्गः सकलदुरितं ध्वंसनपटुः कृतं नृत्यं गीतं स्तुतिरपि रमाकांत त इयम् ।

तव प्रीत्यै भूयादहमपि च दासस्तव विभो कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥

सदा सेव्यः कृष्णः सजलघननीलः करतले दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।

कदाचित्कान्तानां कुचलसितपत्रालिरचनासमासक्तं स्निग्धैः सह शिशुविहारं विरचयन् ॥ १० ॥

मणिकर्णीच्छया जातमिदं मानसपूजनम् । यः कुर्वीतोषसि प्रारास्तस्य कृष्णः प्रसीदति ॥ ११ ॥

इति श्रीशंकराचार्यविरचितं भगवन्मानसपूजनम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:11:06.0000000Z
|-|-|
Comments | अभिप्राय