{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

देवकृतगर्भस्तुतिः




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
देवकृतगर्भस्तुतिः

श्रीगणेशाय नमः ।

देवा ऊचुः ।

जगद्योनिरयोनिस्त्वमनंतोऽव्यय एव च । ज्योतिःस्वरूपो ह्यवशः सगुणो निर्गुणो महान् ॥ १ ॥

भक्तानुरोधात्साकारो निराकरो निरंकुशः । निर्व्यूहो निखिलाधारो निःशंको निरुपद्रवः ॥ २ ॥

निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः । स्वात्मारामः पूर्णकामो निमिषो नित्य एव च ॥ ३ ॥

स्वेच्छामयः सर्वहेतुः सर्वः सर्वगुणाश्रयः । सर्वदो दुःखदो दुर्गो दुर्जनांतक एव च ॥ ४ ॥

सुभगो दुर्भगो वाग्ग्मी दुराराध्यो दुरत्ययः । वेदहेतुश्च वेदाश्च वेदांगो वेदविद्विभुः ॥ ५ ॥

इत्येवमुक्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः । हर्षाश्रुलोचनाः सर्वे ववृषुः कुसुमानि च ॥ ६ ॥

द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत् । दृढां भक्तिं हरेर्दास्यं लभते वांछितं फलम् ॥ ७ ॥

इत्येवं स्तवनं कृत्वा देवास्ते स्वालयं ययुः । बभूव जलवृष्टिश्च निश्चेष्टा मथुरा पुरी ॥ ८ ॥

इति देवकृतगर्भस्तुतिः संपूर्णा ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:12:07.0000000Z
|-|-|
Comments | अभिप्राय