{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

वसुदेवकृतश्रीकृष्णस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
वसुदेवकृतश्रीकृष्णस्तोत्रम्

श्रीगणेशाय नमः ।

वसुदेव उवाच ।

त्वमतींद्रियमव्यक्तमक्षरं निर्गुणं विभुम् । ध्यानासाध्यं च सर्वेषां परमात्मानमीश्वरम् ॥ १ ॥

स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परम् । निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम् ॥ २ ॥

स्थूलात्स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनम् । स्थितं सर्वशरिरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥

शरीरवन्तं सगुणमशरीरं गुणोत्करम् । प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४ ॥

सर्वेशं सर्वरूपं च सर्वांतकरमव्ययम् । सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभुम् ॥ ५ ॥

अनन्तः स्तवनेऽशक्तोऽशक्ता देवी सरस्वती । यं वा स्तोतुमशक्तश्च पञ्चवक्त्रः षडाननः ॥ ६ ॥

चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा । गणेशो न समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ ७ ॥

ऋषयो देवताश्चैव मुनीन्द्रमनुमानवाः । स्वप्ने तेषामदृश्यं च त्वामेव किं स्तुवंति ते ॥ ८ ॥

श्रुतयः स्तवनेऽशक्ताः किं स्तुवंति विपश्चितः । विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥

वसुदेवकृतं स्तोत्र त्रिसंध्यं यं पठेन्नरः । भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणांबुजे ॥ १० ॥

पुत्रं विशिष्टं लभते हरिदासं गुणान्वितम् । संकटं निस्तरेत्तूर्णं शत्रुभीतेः प्रमुच्यते ॥ ११ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे वसुदेवकृतं कृष्णस्तोत्रं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:12:35.0000000Z
|-|-|
Comments | अभिप्राय