{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

बालकृतकृष्णस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
बालकृतकृष्णस्तोत्रम्

श्रीगणेशाय नमः ।

बाला ऊचुः ।

यथा संरक्षितं ब्रह्मन्सर्वापत्स्वेव नः कुलम् । तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन ॥ १ ॥

त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता । स्त्रष्टा पाता च संहर्ता जगतां च जगत्पते ॥ २ ॥

वह्निर्वा वरुणो वापि चंद्रो वा सूर्य एव च । यमः कुबेरः पवन ईशानाद्याश्च देवताः ॥ ३ ॥

ब्रह्मेशशेषधर्मेन्द्रा मुनींद्रा मनवः स्मृताः । मानवाश्च तथा दैत्या यक्षराक्षसकिन्नराः ॥ ४ ॥

ये ये चराचराश्चैव सर्वे तव विभूतयः । आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया ॥ ५ ॥

अभयं देहि गोविंद वह्निसंहरणं कुरु । वयं त्वां शरणं यामो रक्ष नः शरणागतान् ॥ ६ ॥

इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदांबुजम् । दरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ॥ ७ ॥

दरीभूते च दावाग्नौ ननृतुस्ते मुदान्विताः । सर्वापदः प्रणश्यंति हरिस्मरणमात्रतः ॥ ८ ॥

इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् । वह्नितो न भवेत्तस्य भय जन्मनि जन्मनि ॥ ९ ॥

शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसंकटे । स्तोत्रमेतत्पठित्वा तु मुच्यते नात्र संशयः ॥ १० ॥

शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् । इह लोके हरेर्भक्तिमंते दास्यं लभेद् ध्रुवम् ॥ ११ ॥

इति बालकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:13:20.0000000Z
|-|-|
Comments | अभिप्राय