{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

गोपालस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
गोपालस्तोत्रम्

श्रीगणेशाय नमः ।

श्रीनारद उवाच ।

नवीननीरदश्यामं नीलेन्दीवरलोचनम् । बल्लवीनंदनं वंदे कृष्णं गोपालरूपिणम् ॥ १ ॥

स्फुरद्‌बर्हदलोद्‌बद्धनीलकुंचितमूर्धजम् । कदंबकुसुमोद्बद्धवनमालाविभूषितम् ॥ २ ॥

गंधमंडलसंसर्गिचलत्कुंचितकुंतलम् । स्थूलमुक्‍ताफलोदारहरद्योतितवक्षसम् ॥ ३ ॥

हेमांगदतुलाकोटिकिरीटोज्ज्वलविग्रहम् । मन्दमारुतसंक्षोभचलितांबरसंचयम् ॥ ४ ॥

रुचिरौष्ठपुटन्यस्तवंशीमधुरनिःस्वनैः । लसद्‌गोपालिकाचेतो मोहयंतं पुनः पुनः ॥ ५ ॥

बल्लवीवदनांभोजमधुपानमधुव्रतम् । क्षोभयंतं मनस्तासां सस्मेरापांगवीक्षणै; ॥ ६ ॥

यौवनोद्भिन्नदेहाभिः संसक्ताभिः परस्परम् । विचित्रांबरभूषाभिर्गोपनारीभिरावृतम् ॥ ७ ॥

प्रभिन्नांजनकालिंदीजलकेलिकलोत्सुकम् । योधयंतं क्वचिद् गोपान् व्याहरंतं गवां गणम् ॥ ८ ॥

कालिंदीजलसंसर्गिशीतलानिलसेविते। कदंबपादपच्छाये स्थितं वृन्दावने क्वचित् ॥ ९ ॥

रत्‍नभूधरसंलग्नरत्‍नासनपरिग्रहम् । कल्पपादपमध्यस्थहेममंडपिकागतम् ॥ १० ॥

वसंतकुसुमामोदरसुरभीकृतदिङमुखे । गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥ ११ ॥

सव्यहस्ततलन्यस्तगिरिवर्यातपत्रकम् । खंडिताखंडलोन्मुक्तमुक्तासारघनाघनम् ॥ १२ ॥

वेणुवाद्यमहोल्लसकृतहुंकारनिःस्वनैः । सरसैरुन्मुखैःशश्वद्‌गोकुलैरभिवीक्षितम् ॥ १३ ॥

कृष्णमेवानुगायद्भिस्तच्चेष्टादशवर्तिभिः । दंडपाशोद्यतकरैर्गोपालौरुपशोभितम् ॥ १४ ॥

नारद्यैर्मुनिश्रेष्ठैर्वेदवेदांगपारगैः । प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ॥ १५ ॥

य एनं चिंतयेदेवं भक्त्या संस्तौति मानवः । त्रिसंध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम् ॥ १६ ॥

राजवल्लभतामेति भवेत्सर्वजनप्रियः । अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥ १७ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे गोपालस्तोत्रं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:13:51.0000000Z
|-|-|
Comments | अभिप्राय