{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

मोहिनीकृतश्रीकृष्णस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
मोहिनीकृतश्रीकृष्णस्तोत्रम्

श्रीगणेशाय नमः । मोहिन्युवाच ।

सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम् । तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ॥ १ ॥

स्वयमात्मा हि भगवान् ज्ञानरूपो महेश्वरः । नमो ब्रह्मन् जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते ॥ २ ॥

सर्वाजित जगज्जेतर्जीवजीव मनोहर । रतिबीज रति स्वामिन् रतिप्रिय नमोऽस्तु ते ॥ ३ ॥

शश६वद्योषिदधिष्ठान योषित्प्राणाधिकप्रिय योषिद्वाहन योषास्त्र योषिद्धन्धो नमोऽस्तु ते ॥ ४ ॥

पतिसाध्यकरा शेषरूपधार गुणाश्रय । सुगंधिवातसचिव मधुमित्र नमोऽस्तु ते ॥ ५ ॥

शश्‍वद्योनिकृताधार स्त्रीसंदर्शनवर्धन । विदग्धानां विरहिणां प्राणांतक नमोऽस्तु ते ॥ ६ ॥

अकृपा येषु तेऽनर्थं तेषां ज्ञानं विनाशनम् । अनूहरूप भक्तेषु कृपासिंधो नमोऽस्तु ते ॥ ७ ॥

तपस्विनां च तपसां विघ्नबीजया लीलया । नमः सकामं मुक्तानां कर्तु शक्त नमोऽस्तु ते ॥ ८ ॥

तपःसाध्यस्तथाऽऽराध्यः सदैवं पाञ्चभौतिकः । पञ्चेन्द्रियकृताधार पञ्चबाण नमोऽस्तु ते ॥ ९ ॥

मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः । विरराम नम्रवक्रा बभूव ध्यानतत्परा ॥ १० ॥

उक्तं मध्यंदिने कान्ते स्तोत्रमेतन्मनोहरम् । पुरा दुर्वाससा दत्तं मोहिन्यै गंधमादने ॥ ११ ॥

स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत् । अभीष्टं लभते नूनं निष्कलंको भवेद् ध्रुवम् ॥ १२ ॥

चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम् । भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः ।

वनितां लभते साध्वीं पत्‍नीं त्रैलोक्यमोहिनीम् ॥ १३ ॥

इति श्रीमोहिनीकृतकृष्णस्तोत्रं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:15:10.0000000Z
|-|-|
Comments | अभिप्राय