{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

ब्रह्मदेवकृतकृष्णस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
ब्रह्मदेवकृतकृष्णस्तोत्रम्

श्रीगणेशाय नमः । ब्रह्मोवाच ।

रक्ष रक्ष हरे मां च निमग्नं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे ॥ १ ॥

भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे । अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २॥

जन्मोर्मिसंगसहिते योषिन्नक्रौघसंकुले । रविस्त्रोतःसमायुक्ते गंभीरे घोर एव च ॥ ३ ॥

प्रथमामृतरूपे च परिणामविषालये । यमालयप्रवेशाय मुक्तिद्वारातिविस्मृतौ ॥ ४ ॥

बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् । स्वयं च त्वं कर्णधारः प्रसीद मधुसूदन ॥ ५ ॥

मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि । संति विश्वेश विधयो हे विश्वेश्वर माधव ॥ ६ ॥

न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः । तथापि न स्पृहा कामे त्वद्भक्तिव्यवधायके ॥ ७ ॥

हे नाथ करुणासिंधो दीनबंधो कृपां कुरु । त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८ ॥

इत्युक्त्वा जगतां धाता विरराम सनातनः । ध्यायं ध्यायं मत्पदाब्जं शशवत्सस्मार मामिति ॥ ९ ॥

ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । च चैवाकर्मविषये न निमग्नो भवेद् ध्रुवम् ॥ १० ॥

मम मायां विनिर्जित्य स ज्ञानं लभते ध्रुवम् । इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत् ॥ ११ ॥

इति श्रीब्रह्मदेवकृतं श्रीकृष्णस्तोत्रम् संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:17:40.0000000Z
|-|-|
Comments | अभिप्राय