{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्रीकृष्णस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
श्रीकृष्णस्तोत्रम्

श्रीगणेशाय नमः ।

वंदे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥

राधेश राधिकाप्राणवल्लभं बल्लवीसुतम् । राधासेवितपादाब्जं राधावक्षःस्थलस्थितम् ॥ २ ॥

राधानुगं राधिकेष्टं राधापह्रतमानसम् । राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥

राधाह्रत्पद्ममध्ये च वसंतं संततं शुभम् । राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥ ४ ॥

ध्यायंते योगिनो योगान् सिद्धाः सिद्धेश्वराश्च यम् । तं ध्यायेत्सततं शुद्धं भगवंतं सनातनम् ॥ ५ ॥

सेवंते सततं संतो ब्रह्मेशशेषसंज्ञकाः । सेवंते निर्गुणं ब्रह्म भगवंतं सनातनम् ॥ ६ ॥

निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् । नित्यं सत्यं च परमं भगवंतं सनातनम् ॥ ७ ॥

यं सृष्टेरादिभूतं च सर्वबीजं परात्परम् । योगिनस्तं प्रपद्यंते भगवंतं सनातनम् ॥ ८ ॥

बीजं नानावताराणां सर्वकारणकारणम् । वेदवेद्यं वेदबीजं वेदकारणकारणम् ॥ ९ ॥

योगिनस्तं प्रपद्यंते भगवंतं सनातनम् । इत्येवमुक्त्वा गंधर्वः पपात धरणीतले ॥ १० ॥

ननाम दण्डवद्‍ भूमौ देवदेवं परात्परम् । इति तेन कृतं स्तोत्रं यः पठेत्प्रयतः शुचिः ॥ ११ ॥

इहैव जीवन्मुक्तश्च परं याति परां गतिम् । हरिभक्तिं हरेर्दास्यं गोलोके च निरामयः ।

पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १२ ॥

इति नारदपञ्चरात्रे कृष्णस्तोत्रं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:18:01.0000000Z
|-|-|
Comments | अभिप्राय