{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाय नमः ।

अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषि । अनुष्टुप् छन्दः । श्रीकृष्णो देवता । श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोतरशतनामजपे विनियोगः ॥ शेष उवाच । श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।

वासुदेवात्मजः पुण्यो लीलामानुषविग्रहः

॥ १ ॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रसिगदाशंखाद्युदायुधः ॥ २ ॥

देवकीनंदनः श्रीशो नंदगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥

पूतनाजीवितहरः शकटासुरभंजनः । नंदव्रजजनानंदी सच्चिदानंदविग्रहः ॥ ४ ॥

नवनीतनवाहारी मुचुकंदप्रसादकः । षोडशस्त्रीसहस्त्रेशस्त्रिभंगी मधुराकृतिः ॥ ५ ॥

शुकवागमृताब्धींदुर्गोविंदो गोविंदां पतिः । वत्सपालनसंचारी धेनुकासुरभंजनः ॥ ६ ॥

तृणीकृततृणावर्तो यमलार्जुनभंजनः । उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७ ॥

गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परं ज्योतिर्यादवेंद्रो यदूद्वहः ॥ ८ ॥

वनमाली पीतवासाः पारिजातापहारकः । गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९ ॥

अजो निरंजनः कामजनकः कञ्जलोचनः । मधुहामथुरानाथो द्वारकानायको बली ॥ १० ॥

वृन्दावनांतःसंचारी तुलसीदामभूषणः । स्यमंतकमणेर्हर्ता नरनारायणात्मकः ॥ ११ ॥

कुब्जाकृष्णांबरधरो मायी परमपूरषः । मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ १२ ॥

संसारवैरी कंसारिर्मुररिर्नरकांतकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३ ॥

शिशुपालशिरश्छेत्ता दुर्योधनकुलांतकृत् । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४ ॥

सत्यवाक् सत्यसंकल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५ ॥

जगद्‌गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वृषभासुरविध्वंसी बाणासुरबलांतकृत् ॥ १६ ॥

युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७ ॥

कालीयफणिमाणिक्यरंजितश्रीपदांबुजः । दामोदर यज्ञभोक्ता दानवेन्द्राविनाशनः ॥ १८ ॥

नारायणः परब्रह्म पन्नगाशनवाहनः । जलक्रिडासमासक्तगोपीवस्त्रापहारकः ॥ १९ ॥

पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः । सर्वतीर्थात्मकः सर्वग्रहरूपः परात्परः ॥ २० ॥

इत्येवं कृष्णदेवस्य नाम्नमष्टोत्तरं शतम् । कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २१ ॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा । कृष्णनामामृतं नाम परमानंददायकम् ॥ २२ ॥

अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् । दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २३ ॥

पठतां श्रृण्वतां चैव कोटिकोटिगुणं भवेत् पुत्रप्रदमपुत्राणामगतीनं गतिप्रदम् ॥ २४ ॥

धनावहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदंपुष्टिवर्धनम् ॥ २५ ॥

वातग्रहज्वरदीनां शमनं शांतिमुक्तिदम् । समस्तकामदं सद्यः कोतिजन्माघनाशनम् ॥ २६ ॥

अन्ते कृष्णस्मरणदं भवताभयापहम् । कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने ।

नाथाय रुक्मिणीशाय नमो वेदांतवेदिने ॥ २७ ॥

इम मन्त्रं महादेव जपन्नेव दिवानिशम् । सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८ ॥

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् । निविश्य भोगानंतेऽपि कृष्णसायुज्यमाप्नुयात् ॥ २९ ॥

इति श्रीनारदपचरात्रे ज्ञानामृतसारे उमामहेश्वरसंवादान्तर्गतधरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:18:25.0000000Z
|-|-|
Comments | अभिप्राय