{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

गोपालविंशतिस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
गोपालविंशतिस्तोत्रम्

श्रीगणेशाय नमः ।

श्रीमान् वेंकटनार्थायः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे संनिधत्तां सदा ह्रदि ॥ १ ॥

वंदे वृन्दावनचरं बल्लवीजनवल्लभम् ।

जयंतीसंभवं धाम वैजयंतीविभूषणम् ॥ २ ॥

वाचं निजाङकरसिकां प्रसमीक्षमाणो वक्त्रारविदविनिवेशितपाञ्चजन्यः ।

वर्णत्रिकोणरुचिरे वरपुंडरिके बद्धासनो जयति बल्लभचक्रवर्ती ॥ ३ ॥

आम्नायगंधरुचिरस्फुरिताधरोष्ठमस्त्राविलेक्षणमनुक्षणमंदहासम् ।

गोपालडिंभवपुषं कुहनाजनन्याः प्राणस्तनंधयमवैमि परं पुमांसम् ॥ ४ ॥

आविर्भवत्यनिभृतभरणं पुरस्तादाकुंचितैकचरणं निहितान्यपादम् ।

राधानिबद्धमुकुरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ॥ ५ ॥

कुंदप्रसूनविशदैर्दशनैश्चतुर्भिः संदश्य मातुरनिशं कुचचूचुकाग्रम् ।

नंदस्य वक्त्रमवलोकयतो मुरारेर्मदस्मितं मम मनीषितमातनोतु ॥ ६ ॥

हर्तु कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं दृष्ट्‌वा दामग्रहणचटुलां मातरं जातरोषम् ।

पायादीषत्प्रचलितपदो नापगच्छन्नतिष्ठन्मिथ्यागोपाः सपदि नयने मीलयन् विश्वगोप्ता ॥ ७ ॥

व्रजयोषिदपांगवेदनीयं मथुराभाग्यमनन्यभोग्यमीडे ।

वसुदेववधूस्तनंधयं तत्‌ किमपि ब्रह्म किशोरभावदृश्यम् ॥ ८ ॥

परिवर्तितकंधरं भयेन स्मितफुल्लाधरपल्लवं स्मरामि ।

विटपित्वनिरासककयोश्चिद्विपुलोलूखलकर्षकं कुमारम् ॥ ९ ॥

निकटेषु निशामयामि नित्यं निगमांतैरधुनापि मृग्यमाणम् ।

यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवतं युवानम् ॥ १० ॥

पदवीमदवीयसीं विमुक्तेरटवीसंपदमंबु वाहयंतीम् ।

अरुणाधरसाभिलाषवंशां करुणां कारणमानुषं भजामि ॥ ११ ॥

अनिमेषनिषेवणीयमक्ष्णोरजहद्योवनमाविरस्तु चित्ते ।

कलहायितकुन्तलं कलापैः करुणोन्मादकविग्रहं मनो मे ॥ १२ ॥

अनुयायिमनोज्ञवंशनालैरवतु स्पर्शितबल्लवीविमोघैः ।

अनघस्मितशीतलौरसौ मामनुकंपासरिदंबुजैरपाङ्गैः ॥ १३ ॥

अधराहितचारुवंशनाला मुकुटालंबिमयूरपिच्छमालाः ।

हरिनीलशिलाविहंगलीलाः प्रतिभासंतु ममांतिमप्रयाणे ॥ १४ ॥

अखिलानवलोकयामि कालान्महिलादीनभुजांतरस्य यूनः ।

अभिलाषपदं ब्रजांगनानामभिलापक्रमदूरमाभिरूप्यम् ॥ १५ ॥

महसे महिताय मौलिना विनतेनांजलिमंजनन्त्विषे ।

कलयामि विदग्धबल्लवीवलयाभाषितमंजुवेणवे ॥ १६ ॥

जयतु ललितकृतं शिक्षको बल्लवीनांशिथिलवलयसिजाशीतलैर्हस्ततालैः ।

अखिलभुवनरक्षागोपवेषस्य विष्णोरधरमणिसुधाया वंशवान्वंशनालः ॥ १७ ॥

चित्राकल्पश्रवसि कलयँल्लांगलीकर्णपूरं बर्होत्तंसस्फुरितचिकुरो बंधुजीवं दधानः ।

गुंजाबद्धामुरसि ललितां धारयन्‍ हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥ १८ ॥

लीलायाष्टिं करकिसलये दक्षिणे न्यस्य धन्यामंसे देव्याः पुलकनिविडे सन्निविष्टान्यबाहुः ।

मेघश्यामो जयति ललितं मेखलादत्तवेणुर्गुंजापीडस्फुरितचिकुरो गोपकन्या भुजङ्गः ॥ १९ ॥

प्रत्यालीढस्मृतिमधिगतां प्राप्तगाढांगपालीं पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।

भस्त्रायंत्रप्रणिहितकरो भक्तिजीवातुरव्याद्वारिक्रीडानिबिडवसनो बल्लवीवल्लभो नः ॥ २० ॥

वासो ह्रत्वा दिनकरसुतासंनिधौ वल्लवीनां लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।

सव्रीडाभिस्तदनु वसनं ताभिरभ्यर्थ्यमानः कामी कश्चित्करकमलयोरंजलिं याचमानः ॥ २१ ॥

इत्यनन्यमनसा विनिर्मितां वेंकटेशकविना स्तुतिं पठन ।

दिव्यबेणुरसिकैः समीक्षते दैवतं किमपि यौवतप्रियम् ॥ २२ ॥

इति गोपालविंशतिस्तोत्रं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:20:13.0000000Z
|-|-|
Comments | अभिप्राय