{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

गोपालाष्टकम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
गोपालाष्टकम्

श्रीगणेशाय नमः ।

यस्माद्विश्वं जातमिदं चित्रमतक्यं यस्मिन्नानंदात्मनि नित्यं रमते वै ।

यत्रांते संयाति लयं चैतदशेषं तं गोपालं संततकालं प्रति वंदे ॥ १ ॥

यस्याज्ञानाज्जन्मजरारोगकदंबं ज्ञाते यस्मिनश्यति तत्सर्वमिहाशु ।

गत्वा यत्रायाति पुनर्नो भवभूमिं तं गोपालं संततकालं प्रति वंदे ॥ २ ॥

तिष्ठन्नंतर्योयमयत्येतदजस्त्रं यं कश्चिन्नो वेद जनोऽप्यात्मनि संतम् ।

सर्वं यस्येदं च वशे तिष्ठति विश्वं तं गोपालं संततकालं प्रति वंदे ॥ ३ ॥

धर्मोऽधर्मेणेह तिरस्कारमुपैति काले यस्मिन्मत्स्यमुखैश्चारुचरित्रैः नानारूपैः ।

पाति तदा योऽवनिबिंबं तं गोपालं संततकालं प्रति वंदे ॥ ४ ॥

प्राणायामैर्ध्वस्तसमस्तेन्द्रियदोषा रुद्‌ध्वा चित्तं यं ह्रदि पश्यंति समाधौ ।

ज्योतीरूपं योगिजनामोदनिमग्नास्तं गोपालं संततकालं प्रति वंदे ॥ ५ ॥

भानुश्‍चंद्रश्‍चोड्डगणश्‍चैव हुताशो यस्मिन्नैवाभाति तडिच्चापि कदापि ।

यद्भासा चाभाति समस्तं जगदेतत् तं गोपालं संततकालं प्रति वंदे ॥ ६ ॥

सत्यज्ञानं मोदमवोचुर्निगमा यं यो ब्रह्मेन्द्रादित्यगिरिशार्चितपादः ।

शेतेऽनंतोऽनंततनावंबुनिधौ यस्तं गोपालं संततकाल प्रति वंदे ॥ ७ ॥

शैवाः प्राहुर्यं शिवमन्ये गणनाथं शक्तिं चैकेऽर्कं च तथान्ये मतिभेदात् ।

नानाप्रकारैर्भाति य एकोऽखिलशक्तिस्तं गोपालं संततकालं प्रति वंदे ॥ ८ ॥

श्रीमद्‍गोपालाष्टकमेतत् समधीते भक्त्या नित्यं यो मनुजो वै स्थिरचेताः ।

हित्वा तूर्णं पापकलापं स समेति पुण्यं विष्णोर्धाम यतो नैव निपातः ॥ ९ ॥

इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीगोपालाष्टकं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:21:25.0000000Z
|-|-|
Comments | अभिप्राय