{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

सत्यव्रतोक्तदामोदरस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
सत्यव्रतोक्तदामोदरस्तोत्रम्

श्रीगणेशाय नमः ।

सिंधुदेशोद्भवो विप्रो नाम्ना सत्यव्रतः सुधीः । विरक्त इंद्रियार्थेभ्यस्त्यक्त्वा पुत्रगृहादिकम् ॥ १ ॥

वृन्दावने स्थितः कृष्णमारराध दिवानिशम् । निःस्वः सत्यव्रतो विप्रो निर्जनेऽव्यग्रमानसः ॥ २ ॥

कार्तिके पूजयामास प्रीत्या दामोदर नृप । तृतीयेऽह्नि सकृद्‌भुङक्ते पत्रं मूलं फलं तथा ॥ ३ ॥

पूजयित्वा हरिं स्तौति प्रीत्या दामोदराभिधम् ॥ ४ ॥

सत्यव्रत उवाच । नमामीश्वरं सच्चिदानंदरूपं लसत्कुण्डलं गोकुले भ्राजमानम् ।

यशोदाभियोलूखले धावमानं परामृष्टमत्यंततो दूतगोप्या ॥ ५ ॥

रुदंतं मुहुर्नेत्रयुग्मं मृजंतं करांभोजयुग्मेन सातंकनेत्रम् ।

मुहुःश्वासकं पत्रिरेखांककंठं स्थितं नौमि दामोदरं भक्तवन्द्यम् ॥ ६ ॥

वरं देव देहीश मोक्षावधिं वा न चान्यं वृणेऽहं वरेशादपीह ।

इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्याविरास्तां किमन्यैः ॥ ७ ॥

इदं ते मुखांभोजमत्यंतनीलैर्वृतं कुन्तलैः स्निग्धवक्रैश्चगोप्या ।

मुहुश्चुंबुतं बिंबरक्ताधरं मे मनस्याविरास्तामलं लक्षलाभैः ॥ ८ ॥

नमो देव दामोदरानन्तविष्णो प्रसीद प्रभो दुःखजालाब्धिमग्नम् ।

कृपादृष्टिवृष्ट्याऽतिदीनं च रक्ष गृहाणेश मामज्ञमेवाक्षिदृश्यम् ॥ ९ ॥

कुबेरात्मजौ वृक्षमूर्ती च यद्वत्त्वया मोचितौ भक्तिभाजौ कृतौ च ।

तथा प्रेमभक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ १० ॥

नमस्ते सुदाम्ने स्फुरद्दीप्तधाम्ने तथोरस्थविश्वस्य धाम्ने नमस्ते ।

नमो राधिकायै त्वदीयप्रियायै नमोऽनंतलीलाय देवाय तुभ्यम् ॥ ११ ॥

नारद उवाच । सत्यव्रद्विजस्तोत्रं श्रुत्वा दामोदरो हरिः ।

विद्युल्लीलाचमत्कारो ह्रदये शनकैरभुत् ॥ १२ ॥

इति श्रीसत्यव्रतकृतदामोदरस्तोत्रं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:22:22.0000000Z
|-|-|
Comments | अभिप्राय