{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

ज्वरकृतकृष्णस्तोत्रम्




भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.
Content
ज्वरकृतकृष्णस्तोत्रम्

श्रीगणेशाय नमः ।

विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।

अभ्यपद्यत दाशार्ह दहन्निव दिशो दश । अथ नारायणो देवस्तं दृष्ट्‌वा व्यसृजज्ज्वरम् ॥ १ ॥

माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ । माहेश्वरः समाक्रन्दन्वैष्णवेन बलार्दितः ॥ २ ॥

अलब्ध्वाऽभयमन्यत्र भीतो माहेश्वरो ज्वरः । शरणार्थी ह्रषीकेशं तुष्टाव प्रयतांजलिः ॥ ३ ॥

ज्वर उवाच । नमामि त्वाऽनंतशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।

विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्‍ब्रह्म ब्रह्मलिंगं प्रशांतम् ॥ ४ ॥

कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्संघातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ ५ ॥

नानाभावैर्लीलयैवोपपनैर्देवान्साधूंल्लोकसेतून् बिभर्षि । हंस्युन्मार्गन्हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमैः ॥ ६ ॥

तप्तोऽहं ते तेजसा दुःसहेन शीतोग्रेणात्युल्बणेन ज्वरेण । तावत्तापो देहिनां तेऽङघ्रिमूलं नो सेवेरन्यावदाशनुबद्धाः ॥ ७ ॥

श्रीभगवानुवाच । त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् । यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् ॥ ८ ॥

इत्युक्तोऽच्युतमानम्य गतोमाहेश्वरो ज्वरः । बाणस्तु रथमारूढः प्रागाद्योत्स्यन् जनार्दनम् ॥ ९ ॥

इति श्रीज्वरकृतकृष्णस्तोत्रं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:22:45.0000000Z
|-|-|
Comments | अभिप्राय